________________
हरिवंशपुराणं।
चतुर्विशः सर्गः । नाम्ना भूरिश्रवाः पुत्रः सोमश्रीस्तनयाऽनयोः । अस्याः स्वयंवरार्थ च समाहूता नरेश्वराः ॥५२॥ सोमश्रीनिशि हर्म्यस्था देवागमनदर्शनात् । जातिस्मरणसंयुक्ता मुमूर्च्छ प्रेमवाहिनी ।। ५३ ॥ लब्धसंज्ञा समुत्थाय ध्यायंती स्वर्गिणं पतिं । स्नानाशननिवृत्तेच्छा मौनव्रतमशिश्रियत् ॥५४॥ एकांते पृष्टया कृच्यात् कथितं च ममानया। पूर्वजन्मनि देवेन सह क्रीडितमात्मनः ॥ ५५॥ पूर्वप्रच्युतदेवस्य हरिवंशे समुद्भवः । विज्ञातश्चानया देव्या सत्यात् केवलिभाषितात् ॥ ५६ ॥ समागमश्च विज्ञातः पत्या हस्तिभयच्छिदा। संवादे चाधुना जाते सा ते वांछति संगमं ॥५७॥ राज्ञा मद्वचनाज्ज्ञात्वा प्रेषिताहं तवांतिकं । सौम्य ! सोमश्रिया साकं भज विवाहमंगलं ॥ ५८ ॥ इत्यावेदितसंबंधः स तुष्टोऽधकवृष्टिजः । सोमश्रियमुवाहेष्टां सोमदत्ततनूद्भवां ॥ ५९॥ स्वास्यारविंदसौगंधमकरंदोपयोगिनोः । काले याति सुखे तावत् सोमश्रीवसुदेवयोः ॥६०॥ अथ कोऽप्येकदा भर्तुर्भुजपंजरशायिनीं । सोमश्रियं श्रियं वाऽरिरहरनिशि खेचरः ॥६१ ॥ विबुद्धस्तु पतिः पत्नीपमश्यन् परमाकुलः । सोमश्रीः क गताऽसि त्वमेह्येहीति जुहाव तां ।। ६२ ।। वचोऽनंतरमेषाऽहमिति दत्त्वा वचः श्रितां । खेटस्वसारमद्राक्षीत्सोमश्रीरूपवर्तिनीं ॥ ६३ ॥ निष्क्रांतासि वहिः कांते किमर्थमिति नोदिता । धर्मशांत्यर्थमित्याह सोमश्रीरिव सा स्वयं ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org