________________
हरिवंशपुराणं ।
३६०
चतुर्विंशः सर्गः ।
तेनोक्तं सोमदत्तेन राज्ञा कन्या स्वयंवरे । कारिता बहुशचित्राः प्रासादाः पृथिवीभृतां ॥ ३९ ॥ स्वयंवरविधेः कन्या कुतश्चिदपि हेतुतः । विरक्ताऽभूदतः सर्वे राजानश्च विसर्जिताः ॥ ४० ॥ इत्याकर्ण्य स तस्याश्च चिंतयन्मनसो गतिं । पश्यन्निद्र महं तत्र शौरिर्याविदस्थितः ॥ ४१ ॥ तावच्च सहसा प्राप्ताः सरक्षाः नृपतिस्त्रियः । इंद्रध्वजं च वंदित्वा प्रस्थिताः स्वगृहं पुनः ||४२॥ आलानस्तंभमाभज्य तदा च समदद्विपः । मारयन्सहसाऽऽगच्छन्मर्त्यान्मृत्युरिव स्वयं ॥ ४३ ॥ लोकस्य मर्यमाणस्य महाकलकलध्वनिः । दिशो दश तदा व्याप रसतः पश्यतः पथि ॥ ४४ ॥ प्राप्तश्च मत्तमातंगो वेगी प्रवहणान्यसौ । कन्या प्रवहणाच्चैका पपात सभया क्षितौ ॥ ४५ ॥ करिणं निर्मदीकृत्य तां ररक्ष भयाकुलां । पश्यतः सर्वलोकस्य कृतक्रीडः स यादवः ॥ ४६ ॥ परित्यज्य गजं श्रांतं कन्यां भयविमूच्छितां । समाश्वासयदुत्थाय सा तमैक्षिष्ट रूपिणं ॥ ४७ ॥ दीर्घमुष्णं च निश्वस्य वाष्पाकुलविमोचना । त्रपानता करं तस्य जग्राह स्पर्शसौख्यदं ॥ ४८ ॥ गते शौरौ यथास्थानं धात्री वृद्धा महत्तराः । प्रगृह्य कन्यकां तां च ययुरन्तःपुरालयं ॥ ४९ ॥ ततः कुबेरदत्तस्य भुवने कृतभूषणं । शौरिमेत्य प्रतीहारी राजादेशाततोऽवदत् ॥ ५० ॥ ज्ञातमेव हि ते नूनं वृत्तं देव ! यथा नृपः । सोमदत्तः प्रिया चास्य पूर्णचंद्रेति कीर्त्तिता ॥ ५१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org