SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ३५९ चतुर्विंशः सर्गः । तत्पुराधिपतिं युद्धे स जित्वा कपिलश्रुतिं । उवाह विधिना वीरस्तत्कन्यां कपिलाभिधां ।। २६ ।। तस्यामजनयत्पुत्रं प्रसिद्धं कपिलाख्यया । प्रीतिं श्वशुरपुत्रेण प्राप्तांशुमता परां ॥ २७ ॥ वारिबंधेऽन्यदा गंधगजेन हियमाणकः । दृढमुष्टिर्जघानेभं नीलकंठः स चाभवत् ॥ २८ ॥ पतितश्च शनैः शौरिस्तडागांमस्यनाकुलः । अटव्याश्च विनिष्क्रम्य गतः शालगुहां पुरीं ॥ २९ ॥ तत्र पद्मावती लेभे धनुर्वेदोपदेशतः । जित्वा जयपुरेशं च तत्रैतामपि लब्धवान् ॥ ३० ॥ साकमंशुमता यातो भद्रिलाख्यपुरं परं । पौंड्रश्व नृपतिस्तत्र दुहिता चारुहासिनी ॥ ३१ ॥ दिव्यौषधिप्रभावेन सा वन्वेषधारिणी । तेन विज्ञातवृत्तांता परिणीतातिहारिणी ॥ ३२ ॥ पुत्रं पात्रं श्रियां तस्यां स पौंड्रमुदपादयत् । निशि हंसापदेशेन हतांगारकारिणा ।। ३३ ।। विसृष्टश्चापि गंगायां पपात वियतः शनैः । अपश्यत्पुरं प्रातरिलावर्धनसंज्ञकं ॥ ३४ ॥ तत्रापणे निविष्टोऽसौ वणिकदत्तवरासने । आपणः क्षणमात्रेण पूर्यते स्म धनैश्च सः || ३५ ॥ तत्प्रभावमसौ बुद्ध्वा वणिक् नीत्वा स्वमंदिरं । ददौ रत्नवतीं यूने कन्यां धन्याय संपदा ॥ ३६ ॥ गुंजानः स तया दिव्यान् भोगानंतरवर्जितान् । यातः शक्रमहं द्रष्टुमेकदा तु महापुरं ॥ ३७ ॥ पुरो बहिरसौ दृष्ट्टा प्रासादान् विपुलान् बहून् । पृष्टवानिति केनामी किमर्थं वा निवेशिताः ||३८|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy