________________
हरिवंशपुराणं ।
गः ।
तनयस्तस्य सौदासः स मांसरसलालसः । मायूरमांसमात्रायाः पितुराज्ञामदापयत् ॥ १३ ॥ प्रत्यहं शिखिनां मांसं सूपकारेण संस्कृतं । भक्षयत्यप्रकाशं तत् प्रासादांतरवस्थितः ॥ १४ ॥ कदाचित्तु हृते मांसे मार्जारेण पुरो वहिः । सूपकारो गतोऽपश्यन्मृतं शिशुमुपांशु च ॥ १५ ॥ आनीयादात्सुसंस्कृत्य सौदासोऽप्यघसन्मुदा । अपृच्छच्च स तं मांसं कस्येदमिति सादरः ॥ १६ ॥ अशितानि पुरा भद्र ! पिशितानि बहूनि भोः । न शतांशेन तान्यस्य स्पृशंति स्म रसांतरं ।। १७ ।। सत्यं ब्रूहि हितं साधो ! सत्यमस्मन्न ते भयं । इत्युक्तः सोऽवदत्सर्वं नीत्या युक्तः स्वचेष्टितं ॥ १८ ॥ सौदासोऽपि च तत् श्रुत्वा सूपकारं शशास सः । तुष्टोऽस्मि मर्त्य मांसं मे नित्यमानीयतामिति ॥ १९ ॥ पितर्युपरते तावत्सौदासेऽपि पदस्थिते । सोपायं सूपकारोऽभूदन्वहं शिशुमारकः ॥ २० ॥ प्रत्येकं प्रत्यहं हानिमपत्यानामवेक्ष्य वै । परीक्ष्य भक्षको लोकैराशु देशादपाकृतः ॥ २१ ॥ रंध्रे व्याघ्रवदापत्य निशि नीत्वा नु मानुषान् । दिवाऽरण्ये चरः कुर्याद् व्यसनोपहतो न किं ॥ २२॥ असाध्यो लोकवित्रासी स एष भवताऽधुना । प्रापितः साधुना मृत्युमसाधारणशक्तिना ॥ २३ ॥ इत्यावेद्य वयोवृद्धाः सौदासस्य कुचेष्टितं । वस्त्रमाल्यविभूषाद्यैः पूजयंति स्म यादवं ॥ २४ ॥ सोऽचलग्रामे सार्थवाहस्य देहजां । वेद वामपुरं चामा प्रयातो वनमालया ।। १५ ।।
1
/
Jain Education International
ॐ५८
For Private & Personal Use Only
www.jainelibrary.org