SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ३५७ चतुर्विंशः सर्गः अथासावेकदा शौरिरिंद्रशर्मोपदेशतः । उद्याने साधयन् विद्यां निशि धूतैर्निरीक्षितः ॥ १ ॥ आरोप्य शिविai कापि दूरं नीतो दिवानने । अपसृत्य ततो यातो नगरं तिलवस्तुकं ॥ २ ॥ बाह्यचैत्यगृहोद्याने रात्रौ सुप्तः प्रबोधितः । केनचिद्राक्षसेनेव पुंसा मानुषभक्षिणा ॥ ३ ॥ भो भो ! gora gora कस्त्वं स्वपिषि मानुष । व्याघ्रस्येव क्षुधार्त्तस्य ममास्ये पतितः स्वयं ॥ ४ ॥ विनिद्रो रौद्रनादेन शौरिः शूरतरोऽमुना । जिघांसतं भुजेनारिमाजघान भुजेन सः ॥ ५ ॥ दृढमुष्टिघन।घातघोरनिर्घोषभीषणं । भूतं भूतलसंक्षोभं युद्धमुद्धतयोस्तयोः ।। ६ ।। चिरेण दानवाकारो यादवेन बलीयसा । निहत्य मल्लयुद्धेऽसौ मोचितः प्रियजीवितं ॥ ७ ॥ प्रभाते पौरलोकस्तं नराशिनरनाशनं । रथेन पुरमा वेश्य सत्पौरुषमपूजयत् ॥ ८ ॥ कन्याः पंचशतान्यत्र रूपलावण्यवाहिनीः । कुलशीलवतीर्लब्ध्वा तत्र तावदतिष्ठपत् ॥ ९॥ कुतस्त्योऽयं नृमांसादः पुरुषः परुषाशयः । इति तेन तदा पृष्टैर्वृद्धैरिति निवेदितं ॥ १० ॥ आसीनृपः कलिंगेषु पुरे कांचननामनि । जितशत्रुगणः ख्यातो जितशत्रुरभिख्यया ॥। ११ ॥ आसीदयममोघाज्ञः स्वदेशे देशपालकः । जीवघातनिवृत्तेच्छः सर्वत्राभयघोषणः ।। १२ ।। Jain Education International चतुर्विंशः सर्गः । For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy