________________
हरिवंशपुराणं ।
३५६
त्रयोविंशः सर्गः । इति श्रुत्वा तदाधीत्य सर्वान् वेदान् यदुत्तमः । जित्वा सोमश्रियं श्रीमानुपयेमे विधानतः ॥१५१॥ वरे प्रेम वरं जातं नववध्वा यथा दृढं । वरस्यापि तथा तस्यां तत्र का सुखवर्णना ।। १५२ ॥ रहस्यकृतवक्षसा घनपयोधरोत्पीडनं
चुचुंब सकचग्रहं जघनमाजघानाधरं । ददंश नृवरो वरः सनखपातमस्या वधू
विवेद मदनातुरा न च तथाविधं बाधनं ॥ १५३ ॥ चचार खचरीसखः खचरलोकलोकाधिक:
____ स्वरूपगुणसंपदारतिषु दक्षिणो यो युवा । स्वतंत्रजिनभक्तयाऽरमदतीव सोमश्रिया
पुरे गिरितटाभिधे सुमतिचारुयोषित्सखः ॥ १५४ ॥ इति अरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यकृतौ सोमश्रीलाभवर्णनो नाम त्रयोविंशः सर्गः। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org