________________
३५५
हरिवंशपुराणं ।
त्रयोविंशः सर्गः। चक्रे व्याधिविनाशाय शांतिकर्म च पर्वतः । विश्वासेन ततो लोकः शरणं प्रतिपद्यते ॥ १३८ । सगरः क्षत्रलोकेन सहोपेत्य तमादरात् । होमर्मत्रविधानश्च बभूवः विगतज्वरः॥ १३९ ॥ हिंसानोदनयाऽनान् क्रूरान् क्रूरः स्वयंकृतान् । वेदानध्यापयन विप्रान् क्षिप्रं देवो नयद्वशं॥१४०।। अश्वमेधोऽजगोमेधो यागो यागफलैषिणां । दर्शितः क्षत्रियादीनां साक्षात्प्रत्ययकारिणां॥१४१।। सूर्यते यत्र राजानः शतशोऽपि सहस्रशः । राजसूयक्रतुस्तेन दर्शितो राजवैरिणा ।। १४२ ॥ प्राग्दिवाकरदेवाख्यः खेचरो नारदान्वितः । पापविनकरस्तेन विनितः सुरमायया ॥ १४३ ।। अणिमादिसुरोत्कृष्ट विकुर्वाणे सुराधमे । विद्याबलसमृद्धोऽपि मानुषः किं करिष्यति ॥१४४ ।। घातयित्वा बहून् जीवान् ब्राह्मणादिभिरुद्यतैः । यष्टे यष्टा स दुष्टस्तां स्वपरानिष्टकृत्सुरः।।१४५॥ इष्वा च सगरं यागे मुलसां च कृपोज्झितः । हिंसानंदं परिप्राप्तः प्रयातश्च निज पदं ।। १४६ ॥ प्रवर्तिताश्च ते वेदा महाकालेन कोपिना । विस्तारितास्तु सर्वस्यामवनौ पर्वतादिभिः॥१४७ ।। नारदस्य सुतायाऽसौ खेचरोऽपि सुदृष्टये । सुतां परमकल्याणी ददौ विद्यासमन्वितां ॥ १४८ ॥ अन्वये तनुजातेयं क्षत्रियायां सुकन्यका । सोमश्रीरिति विख्याता वसुदेव ! द्विजन्मनः॥ १४९ ॥ करालब्रह्मदत्तेन मुनिना दिव्यचक्षुषा । वेदे जेतुः समादिष्टा महतः सहचारिणी ॥ १५० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org