________________
हरिवंश पुराणं ।
३५४
त्रयोविंशः सर्गः ।
स्वयंवरे नरश्रेष्ठः कन्यया सगरो वृतः । वृतक्षत्रसमूहेन भोगाशक्तोऽवतिष्ठते ॥ १२५ ॥ इति श्रुत्वा महाक्रोधः समृत्वा मधुपिंगलः । जातोऽवनिकायेषु महाकायो धमामरः ॥ १२६ ॥ अहो कषायपानस्य वैषम्यं यद्विरोधिनः । सम्यक्तौषधिपानस्य जातमत्यंतदूषणं ।। १२७ ।। सुलसापहृतिं ध्यात्वा सोपायां सगरेण सः । क्रोधाग्निना महाकालो जज्वाल हृदये भृशं ॥ १२८ ॥ स्त्रीवैरविषदग्धस्य हृदयस्य विदाहिनः । स दाहोपशमं कर्त्तुं न शशाक शर्माांबुना ॥ १२९ ॥ अर्चितयदसौ येन शत्रोर्दुःखपरंपरां । जायते दीर्घसंसारे तमुपायं करोम्यहं ।। १३० ॥ प्राणी प्रत्यपकाराय चेष्टते ह्यपकारिणः । तैरुपायैर्यकैर्याति मूढधीः स्वयमप्यधः ॥ १३१ ॥ आगतश्च महाकालः क्षत्रक्रोधेन दीपितः । नारदेन जितं जल्पे पश्यति स्म स पर्वतं १३२ ॥ शांडिल्याकृतिरूपोऽय तस्य विश्वासमाह सः । मागः पर्वत ! निर्वेदं जल्पेऽहं जित इत्यलं ॥ १३३ ॥ धौव्यनाम्नो गुरोः शिष्यः शांडिल्योऽहं पिता च ते । चैन्यश्वापि तथोदचः प्रावृतश्चैव पंचमः ॥ १३४॥ सूनोः क्षीरकदंबस्य भवतो यः पराभवः । स ममैव ततोऽस्याहं मार्जनाय समुद्यतः ।। १३५ ।। सहायं मां परिप्राप्य कुरु क्षेत्रमकंटकं । मरुत्सखस्य रौद्रस्य शिखिनः किमु दुष्करं ।। १३६ ।। इति पर्वतमाभाष्य पुरस्कृत्य स दुष्टधीः । सक्षत्रं भरतक्षेत्रं चक्रे व्याधिशताकुलं ॥ १३७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org