________________
३५३
हरिवंशपुराणं।
अयोविंशः सर्गः। सामुद्रिकोऽन्यदाऽद्राक्षीनिसंगमधुपिंगलं । मध्याहे पुरि कस्यांचित्पारणार्थमुपागतं ॥ ११२ ॥ पादमस्तकपर्यंतानिरूप्यावयवान्यतेः । सशिरःकंपमाहासौ महाविस्मयसंगतः ॥ ११३ ॥ तिलमात्रोऽपि देहस्य नेक्षतेऽवयवो मुनेः । सामुद्रया सुदृष्टया यः शुद्धया परिदृष्यते ॥ १४ ॥ तिष्ठत्वन्यदिहामुष्य सल्लक्षणकदंवकं । राज्यं सौभाग्यमप्याह मधुपिंगलनेत्रता ॥ १:५॥ ईदृग्लक्षणयुक्तोऽपि यदयं नवयौवने । परिभ्रमति भिक्षार्थी तद्धिक् सामुद्रशास्त्रकं ॥ ११६ ॥ यथेष दग्धदैवेन कदर्थयितुमार्थतः । तत्किमर्थमनिधन लक्षणोधेन चर्चितः ॥ ११७ ॥ अथवा दुःखभीरुत्वान्न स्पृशंति सुखैषिणः । फलितामपि दुष्याकां विषवल्लीमिव श्रियं ॥११८॥ शुभलक्षणपूर्णस्य पुनः शुद्धान्वयस्य हि । युज्यते क्षपितोऽमुष्य मुमुक्षोर्दीक्षया धृतिः ॥ ११९ ।। सामुद्रिकवचः श्रुत्वा नरः कश्चिदुवाच तं । किं सामुद्रिकवार्ताऽस्य न श्रुता विश्रुतावनौ।।१२०॥ मिलितः खलभूपालैः सुलसायाः स्वयंवरे । चक्षुर्लक्षणहीनोऽयमिति संसदि दूषितः ॥ १२१ ॥ यथैव सूचकः पुंसां पृष्ठमांसस्य खादकः । निंदितः स्वप्रशंसी च तथैव किल पिंगलः ॥१२२॥ परप्रमाणको मुग्धो मत्वात्मानमलक्षणं । मधुपिंगः शुभाक्षोऽयं विलक्षस्तपसि स्थितः ॥१२३ ।। प्रमादालस्यदर्पेभ्यो ये स्वतो नागमेक्षिणः । ते शटैर्विपलभ्यते दृष्टादृष्टार्थगोचरे ॥ १२४ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org