________________
हरिवंशपुराणं ।
३५२
त्रयोविंशः सर्गः ।
आननं संवृतं सौम्यं समं राज्ञामवक्रकं । दुर्भगानां वृहद्वक्त्रं शठानां परिमंडलं ॥ ९९ ॥ स्त्रीवस्त्रम नपत्यानां निम्नं वक्त्रं च निश्वितं । -हस्वं कृपणमर्त्यानां दीर्घमद्रव्य भागिनां ॥ १०० ॥ शंकुकर्णाः महीपालाः रोमकर्णाश्विरायुषः । ऋज्वी समपुटा नासा स्वल्पच्छिद्रा च भोगिनां ॥ १०१ ॥ सकृत्कृतं धनेशानां द्वित्रिः शास्त्रवतां विदुः । संहतं च प्रमुक्तं च विदितं चिरजीविनां ॥ १०२ ॥ रक्तांतैः पद्मपत्रामैत्रैः श्रीधनभागिनः । गजेंद्रवृषनेत्रास्तु भवंति वसुधाधिपाः ॥ १०३ ॥ अमंगलदृशः पापाः पिंगला संगसंगिनः । असंभाष्याः सदा पुंसामदृश्याश्च विशेषतः || १०४ || मानसैर्वाचिकैः कायैः पापैः संचचिताः सदा । दुर्जना दुर्भगाः क्रूराः पापा मार्जारलोचनाः। १०५ ॥ लक्षणानां समस्तानां गुणदोषविचितने । चक्षुर्लक्षणमेवात्र पर्याप्तं फलसाधने ।। १०६ ।। मानोन्मानस्वरं देहं गतिसंहतिमन्वयं । सारं वर्णं बुधो दृष्ट्वा प्रकृतिं च वदेत्फलं ॥ १०७ ॥ इति प्रवाच्यमानेऽसौ पुस्तके मधुपिंगलः । नेत्रदोषकृताशंको निर्गत्य सदसोऽगमत् ॥ १०८ ॥ सुलसां च परित्यज्य प्रव्रज्य नवयौवनः । मुनिचर्याश्रितो देशान् पर्यटन्मधुपिंगलः ।। १०९ ।। इतः सुलसदंभोज लोचनां सुलसां स्वयं । प्राप्तः स्वयंवरे दक्षः सगरः सुखमन्वभूत् ॥ ११० ॥ तदात्वेऽभ्येति शब्दाचेद् वैदग्ध्यमभिकथ्यते । नातिगूढतया जंतुरायत्यां तु दुरंततां ॥ १११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org