________________
हरिवंशपुराणं ।
३५१
त्रयोविंशः सर्गः ।
पीनौ समौ प्रलंबोच करौ करिकरोपमौ । नृपाणामधनानां तु नृणां हस्वौ च रोमशौ ॥ ८६ ॥ दीर्घा दीर्घायुषां पुंसां करशाखासुकोमलाः । सुभगानामवलिताः सूक्ष्मा मेधाविनां पुनः ॥८७॥ स्थूला धनविमुक्तानां चिपटाः प्रेष्यकारिणां । आढ याः कपिकरा मर्त्यां क्रूरा व्याघ्रकराः स्मृताः ८८ निगूढ गूढ सुश्लिष्ट संधिसन्मणिबंधनैः । भूपा द्रारिद्रययुक्तास्तैः सशद्वैश्च श्लथैस्तथा ॥ ॥ ८९ ॥ निम्नैः करतलैः क्लीबाः पितृवित्तविवर्जिताः । धनिनः संवृतैर्निम्नै प्रोत्तानैस्तु प्रदायकाः॥ ९० ॥ लाक्षा भैरीश्वरा निस्स्वा विषमैर्विषमाश्च तैः अगम्यगामिनः पीतैरूक्षै रूपविवर्जिताः ॥ ९१ ॥ तुषच्छावेनखैः क्लीबाः स्फुटितैर्वित्तवर्जिताः । आताम्रैश्च चमूनाथाः कुनखैः परितर्किणः ।। ९२ ।। अंगुष्ठजैर्यवैराढ्याः पुत्रिर्णोऽगुष्ठमूलजैः । निम्नातिस्निग्धरेखाभिर्धनिनो व्यत्ययेऽन्यथा ॥९३॥ सुघनांगुलयोऽर्थाढ्या विरलांगुलयोऽन्यथा । तिस्रः करमितारेखा नृपतेर्मणिबंधनात् ॥ ९४ ॥ प्रदेशिनी स्मृता रेखा लक्षणं परमायुषः । छिन्नाभिस्ताभिरूनाभिरायुरूनं निरूपितं ।। ९५ ॥ असिशक्तिगदाकुंत चक्रतोमर पूर्विकाः । कथयंति चमूनाथं कररेखाः परिस्फुटं ॥ ९६ ॥ कृशैस्तु चिकैर्दीर्घर्निस्वा धन्यास्तु मांसलैः । उष्ठैरस्फुटिता वक्त्रैर्भूपा विबफलोपमैः ॥ ९७ ॥ तीक्षदंष्ट्रा समा स्निग्धा बिशदा दशना घनाः । जिहा रक्ता च दीर्घा च श्लक्ष्णा भोगवतां नृणां । ।१८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org