________________
३५०
हरिवंशपुराणं।
त्रयोविंशः सर्गः। ज्ञेयाः स्वदारसंतुष्टा ऋजुभिर्बलिभिर्नराः । अगम्यंगामिनः पापा विषमैबलिभिः पुर्नः ॥ ७६ ॥ मांसलै दुभिः पार्श्वदक्षिणावर्तरोमभिः । भूपास्तद्विपरीतैस्तु परप्रेष्यकरा नराः ॥ ७७ ॥ सुभगाः स्युरनुभूतैश्चूचुकैः पीवरैर्नराः । दीपँच विषमैर्मा जायते धनवर्जिताः ॥ ७८ ।। मांसलं हृदयं राज्ञां पृथूनतमवेपनं । विपरीतमपुण्यानां खररोमभिराचितं ॥ ७९ ॥ वक्षोभिश्च समैराढयाः पीनैः शूरास्त्वकिंचनाः। तनुभिर्विषमनिस्वास्तथा शस्त्रांतजीविनः॥८॥ पीनेन जानुना ह्याढयो भोगवानुनतेन तु | निःस्वो निम्नास्थिनद्धेन विषमो विषमेण ना ॥८॥ नित्यमस्वेदनाः कक्षाः पीनोन्नतसुगंधयः । निश्चेतव्या धनेशानां संकुलाः समरोमभिः ॥ ८२ ॥ निस्वस्य चिपिटा ग्रीवा संशुष्का च शिराचिता। कंबुग्रीवो नपः शूरो महिषग्रीवमानवः ॥८३॥ अरोमशमभग्नं च पृष्टं शुभकरं मतं । रोमशं चातिभग्नं च न शुभावहमिष्यते ॥ ८४ ॥ अल्पावमांसलौ भग्नौ रोमशावधनस्य तु । सुश्लिष्टौ मांसलावंसौ शौर्यवित्तवतां नृणां ॥८५ ॥
१ अन्यदाररता नीचा वर्जिता विषमैनराः । इति ख पुस्तके
२ अस्मादयेतनः ख पुस्तकेऽयमधिकः पाठः'स्थूलैश्च मृदुभिः पाईदक्षिणावर्तरोमभिः । राजा मवति मोऽसावन्यथा किंकरो भवेत् ॥'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org