________________
३४९
हरिवंशपुराणं।
त्रयोविंशः सर्गः । अल्पातितनुरोमानुवृत्तजंघा सुजानवः । वृत्तोरवः शुभा निद्याः शुष्कजंघोरुजानवः ॥६३॥ एकैकं कूपके रोम राज्ञा द्वे द्वे सुमेधसां । त्र्यादीनि जडनिस्वानां केशाश्चैवं फलाः स्मृताः ॥६४॥ अल्पं दक्षिणतो वक्र स्थूलग्रंथि शुभं शिशोः । शिश्नं तद्विपरीतं तु विपरीतफलं मतं ॥६५॥ नियंते स्वल्पवृषणा विषमैः स्त्रीबलाश्च तैः। समै पाश्चिरायुष्काः प्रलंबवृषणा नराः ॥ ६६ ॥ सशब्दमूत्राः सुखिनो विपरीतास्तु दुःखिनः । द्वयादिप्रदक्षिणावर्त्तधाराः श्रीशास्तु नेतरे।।६७॥ स्थूलस्फिक्च पुमानिस्वोमांसलस्फिक् सुखी भवेत् । मांडूकस्फिा नरो व्याघ्रादुद्धतस्फिक्मृतिं व्रजेत् राजा सिंहकटिः प्रोक्तो वानरौष्ट्रकटिर्धनी । समोदरः सुखी दुःखी घटोरुपिठरोदरः ॥ ६९ ॥ संपूर्णैनिनः पा.निम्नवक्त्रैरभोगिनः । कुक्षिभिश्च तथा निम्नैर्भोगिनः समकुक्षयः ॥ ७० ॥ उन्नतैः कुक्षिभिर्भूपाः कुधना विषमैश्च तैः । सर्पोदरा दरिद्रास्तु भवंति बहुभोजनाः ॥ ७१ ॥ विस्तीर्णोन्नतगंभीरवृत्तनाभिः सुखी नरः । निम्नाल्पादृश्यनाभिस्तु कथितः क्लेशभाजनः ॥७२।। शूलवाधाश्च दारिद्रयं विषमावलिमध्यमाः । सा वामदक्षिणावर्ता साव्यं मेधां करोति च ॥७३॥ कुरुते भूपति नाभिः पद्मकर्णिकया समा । आयतोपर्यधःपार्श्ववित्तगोमच्चिरायुषः ॥ ७४ ॥ शास्त्रार्थस्त्रीप्रियो नित्यमाचार्यों बहपत्यकः । एकद्वित्रिचतुर्भिः स्यादलिभिः क्षितिपो बलिः ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org