________________
हरिवंशपुराणं।
त्रयोविंशः सर्गः । सुलेसे ! शृणु वृत्तं मे वत्से त्वं मातृवत्सले । सूत्यानुसारिणी स्नेहव्यक्तिर्मातरि यन्मता॥५१॥ जातः सर्वेयशोदेव्यां तृणविंदोममाग्रजात् । स्थितं क्षेत्रभधिक्षिप्य श्रिया नु मधुपिंगलः ॥५२॥ पूर्वमेव मया तस्मै मनसा त्वं निरूपिता । मन्मनोरथमेवातः पूरय त्वं स्वयंवरे ।। ५३ ॥ इत्युक्त्वा सुलसा साधं मातरं प्राह सा वरा । मारोदीर्मातरिष्टं ते कुर्वे राजन्यसंनिधौ ॥५४॥ इत्युक्तमखिलं श्रुत्वा गत्वा मंदोदरी रहः। कन्यास्वीकारचित्ताय सगराय न्यवेदयत् ।।५५॥ ततः पुरोहितेनाशु सगरो विश्वभूतिना । नरलक्षणविज्ञापि रहः शास्त्रमकारयत् ॥ ५६ ॥ स्वयंवरधरोत्खात लोहमंजूषिकोद्धृतं । अदर्शयत्पुरो राज्ञां पुस्तकं धूमधूसरं ॥ ५७ ॥ स्वयंवरार्थिनां तेषां पुरः पुस्तकमुच्चकैः । अवाचयत्पुरोधाश्च लक्षणश्रवणार्थिनां ॥५८।। मत्स्यशंखकुशाद्यको पद्मगर्भनिभोदरौ । सुपार्णिभागशोभाढ्यौ सुश्लिष्टांगुलिपर्वकौ ॥५९॥ स्निग्धताम्रनखौ पादौ गूढगल्फौ शिरोज्झितौ । सोष्णौ कूर्मोन्नतौ स्वेदमुक्तौ स्तां पृथिवीपतेः॥६०॥ सूर्पाकारौ शिरानद्धौ वक्रौ रूक्षनखौ स्मृतौ । पादौ पापवतः पुंसः संशुष्कौ विरलांगुली ॥ ६१ ॥ सच्छिद्रौ सकषायौ च वंशच्छेदकरौ तु तौ। हिंस्रस्य दग्धमृच्छायौ पीतौ गम्येत रोषिणः ॥२॥
१ सुलसे शृणु वत्से मे वचस्त्वं मातृवत्सले । इति ख पुस्तके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org