________________
हरिवंशपुराणं ।
३४७
त्रयोविंशः सर्गः । राज्ये पुत्रशतं प्राज्ये संस्थाप्य भरतादिकं । यो मुमुक्षुर्विनिःक्रांतः सचतुर्नृसहस्रकः ॥ ३८ ॥ यश्चत्वारश्चतुर्वेदस्तपो दुश्चरमात्मभूः । धीरो वर्षसहस्रं वै पराजितपरीषहः ।। ३९ ।। समुत्पादितकैवल्य वेदनेत्रे क्षिताखिलः । धर्मतीर्थेन यश्व धर्मतीर्थ खलोज्झितं ॥ ४० ॥ यौ द्वौ धर्माश्रम धर्म्यं गृहिश्रमणसंश्रयौ । स्वर्गापवर्गसौख्यस्य सिद्धये दर्शयन्मुनिः ॥ ४१ ॥ द्वादशांग विकल्पेषु वेदेषु यतिवृत्तिषु । अंतर्गता गृहस्थानां यथोक्ताचारदर्शिना ।। ४२ ॥ गुण शिक्षाव्रतस्थानामनेकनियमश्रितां । तेन ये दर्शिता वेदा ऋषभप्रभुणार्षभाः ॥ ४३ ॥ तानधीत्य तदुक्तेन विधिना भरतार्चितः । धर्मयज्ञानयच्छाद्ययुगे विप्रगणोऽखिलः ॥ ४४ ॥ अनार्षाणां तु वेदानामुत्पत्तिरभिधीयते । ऐदंयुगीन विप्राणां तात्पर्यं यत्र वर्त्तते ॥ ४५ ॥ भूप धारणयुग्मेऽभूत्पुरे यो रणभूमिषु । अयोधनतया योधैरयोधन इतीरितः ।। ४६ ।। भूषितादित्यवंशस्य सोमवंशतनूद्भवा । दितिस्तस्य महादेवी तृणविंदोः कनीयसी ॥ ४७ ॥ सा योषिद्गुणमंजूषामसूत सलसां सुतां । यौवने च पिता तस्याः स्वयंवरमचीकरत् ॥ ४८ ॥ आगताश्च समाहूताः पृथिव्यां पृथुकीर्त्तयः । स्वयंवरार्थिनो भूषाः सादराः सगरादयः ॥ ४९ ॥ सगरस्य प्रतीहारी नाम्ना मंदोदरी दितेः । गृहं गताऽन्यदाऽश्रौषीदेकांते वचनं दितेः ||५० ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org