________________
हरिवंशपुराणं ।
३४६
त्रयोविंशः सर्गः ।
गोष्ठे गोपवधूतक्षुत्पिपासापरिश्रमः । उषित्वा प्रातरुत्थाय स प्रायादक्षिणां दिशं ।। २५ ।। पुरं गिरितटं तत्र वप्रप्राकारवेष्टितं । दृष्ट्रा हृष्टः प्रविष्टोऽसौ विशिष्टजनतावृतं ॥ २६ ॥ वेदाध्ययननिर्घोषमुखरीकृतदिग्मुखे । तत्रापृच्छन्नरं कंचिदिति शौरिः स कौतुकः ॥ २७ ॥ किं केनात्र महादानमाहवेभ्यः प्रवर्त्तितं । येनामी मिलिता विश्वे मेदिन्या वेदवेदिनः ||२८|| सोsवोचद्वसुदेवोऽत्र भोजकोऽस्यास्ति कन्यका | सोमश्रीरिव सोमश्रीः कलावेदविशारदा ।। २९ ॥ जेता वेदविचारेऽस्याः यः स भर्त्ता भविष्यति । इति दैवज्ञवाक्येन संहता वैदिकी प्रजा ॥ ३० ॥ जघनस्तनभारार्त्ता तनुमध्यातिरूपिणी । भरक्षमस्य नो विद्मः कस्योपरि पतिष्यति ॥ ३१ ॥ श्रुत्वैवं शब्दमात्रेण सा कन्या श्रोत्रहारिणी । हंसीव राजहंसस्य चक्रे सोत्कंठितं मनः ॥ ३२ ॥ ब्रह्मदत्तमुपाध्यायं सोभ्युपेत्य निवेद्य च । गोत्रसंचारणं वेदानहोध्यापय मामिति ॥ ३३ ॥ किं वेदान् धर्मानधिजिगांस से । अनार्षानथवा वेदानित्यवादीदसौ गुरुः ||३४|| कथं द्वैविध्यमेतेषामिति पृष्टोऽवदत्पुनः । प्रहृष्टहृदयोऽत्यर्थं यथार्थवचनो द्विजः ।। ३५ ।। षट्कर्मसु प्रजा प्राप्ताः कल्पवृक्षपरिक्षये । यः शशास पुरा वेदैस्त्रिभिर्वर्णैरिवाश्रिताः ॥ ३६ ॥ हिमर्विभ्यस्तनाभोगां रौप्यपर्वतहारिणीं । वार्धिकांचीगुणां राजा योऽन्वभूद्वसुधावधूं ॥ ३७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org