________________
हरिवंशपुराणं ।
त्रयोविंशः सर्गः ।
1
प्राप्तः शरदृतुर्दृप्तः शरपुंखकरस्ततः । गुंजगज्यया सज्ज्यं प्राज्यवाणासनश्रिया || १३ || काले विद्याधरास्तत्र स्वविद्यौषधिसिद्धये । निगृहीतमनोवेगा मनोवेगा विनिर्ययुः ॥ १४ ॥ तदा तौ दंपती शैलं हीमंतं कामवर्षिणौ । प्रयातौ विद्ययाश्लिष्टौ घनं विद्युद्यनौ यथा ॥ १५ ॥ असंपत्नसपत्नीकतापसस्त्रीघरोरसं । असिधाराव्रतं तीव्रं चरंतमिव सततं ।। १६ ।। मधुपानमदोन्मत्तपतत्रिमधुपा खैः । विध्यतो मदनस्यैव स शरज्यारवैर्युतः ॥ १७ ॥ अवतीर्णौ तमुद्गंधि सप्तपर्णावतंसकं । हारिणं वर्णयंतौ तौ मरुघूर्णितभूरुहं ॥ १८ ॥ परिभ्रम्य चिरं शोभां पश्यंतौ तृप्तिवर्जितौ । गिरेः सानुषु रम्येषु ररम्येते स्म सस्मरौ ॥ १९ ॥ तयोः संभोग संभारः पुष्पपल्लवकल्पिते । तल्पेऽनल्पोऽपि खेदाय समजायत नो तदा ॥ २० ॥ चिरेण रतिसंभोग संभूतस्वेदभूषितौ । निष्क्रांती कदलीगेहात् तौ रक्तांतविलोचनौ ॥ २१ ॥ मुक्तकेकारखं तत्र चित्रगात्रमपश्यतां । कलापिनमकस्मात्तौ मयूरं मत्तलोचनं ॥ २२ ॥ शोभया हृतचित्तां तां मुक्तादित्सुः सकौतुका । स्कंधमारोप्य तेनाऽसौ नीता नीलयशाः नभः ॥ २३ ॥ नीचेन नीलकंठेन नीलकंठवपुर्भृता । हृतायां विह्वलो बध्वां वसुदेवोऽभ्रमद्वने ॥ २४ ॥
१' असम्पन्न सपत्नीकतापसश्रीधरोरसं' इत्यपिपाठः ।
Jain Education International
३४५
For Private & Personal Use Only
www.jainelibrary.org