________________
हरिवंशपुराणं।
३४४
त्रयोविंशः सर्गः। त्रयोविंशः सर्गः। प्रासादस्थोऽन्यदा श्रुत्वा महाकलकलध्वनि । इत्यपृच्छत्प्रतीहारी शौरिः पार्श्वव्यवस्थितां ॥१॥ कुतो हेतोरयं लोको वर्तते मुखरोऽखिलः । इत्युक्ता साऽवदत्तस्मै वृत्तवृत्तांतवेदिनी ॥ २ ॥ श्रृणु देवास्ति शैलेऽस्मिन् नगरं शकटामुखं । तस्येशो नीलवान् नाम्ना व्योमगानामधीश्वरः।।३।। नीलस्तस्य सुताः कन्या मान्या नीलांजनाभिधा । कुमारकन्ययोवृत्ता संकथा च तयोरिति ॥४॥ पुत्रो मे ते यदा कन्या भविता भविता तयोः। अविवादो विवाहोऽत्र गोत्रप्रीतो परस्परं ॥५॥ ऊढायाः सिंहदंष्ट्रेण श्वशुरेण तवामुना । सेयं नीलांजनायाश्च याता नीलयशाः सुता ॥ ६॥ नीलस्योदूढभार्यस्य नीलकंठस्तु यः सुतः। जातोऽस्मै याचते स्मैतां स नीलयशसं तदा ॥७॥ सिद्धादेशस्य सत्साधोरादेशात्तु बृहस्पतेः । दत्तेयं तेऽर्द्धचक्रेशपित्रे पित्रा यशस्विने ॥ ८॥ पितृपुत्रौ च तो नीलनीलकंठौ सभांतरे । खलौ च सिंहदंष्ट्रेण व्यवहारं श्रिताविमौ ॥ ९ ॥ न्यायेन च तयोरत्र जितयोः श्वशुरेण ते । उच्चैः खेचरलोकेन कृतः कलकलध्वनिः ॥ १० ॥ इति श्रुत्वा प्रतीहार्या वचः सूर्यपुरोद्भवः । कृतस्मितमुखं तस्थौ स नीलयशसा सह ॥ ११ ॥ प्राप्तां धनकृताश्लेषां प्रावृषं विषयाप्रियां। शुक्लापांगस्व हृद्यां सोन्वभूतां वधूमिव ॥ १२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org