SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ३४३ हरिवंशपुराणं। द्वाविंशतितमः सर्गः। कालातिपातिभिर्व्यर्थैः क्रीडितैरिह किं कृतैः । प्रयामो वयमास्स्व त्वं पश्यामः श्वासुरं पुरं ॥१४७॥ एवमास्त्विति नात्वाऽसौ स्थापितोऽसितपर्वते । कृतविद्याधरीरक्षा वाह्योद्याने मनोहरे ॥ १४८ ॥ प्रविष्टा तुष्टचित्ता च निजं नीलयशाः पुरं । शौरिसंकथया तस्थौ तत्समागमकांक्षया ॥ १४९ ॥ सुस्नातोऽलंकृतो भूत्या महत्या स रथः स्थितः। प्रवेशितः पुरं वीरः खेचरैः स्वर्गसंनिभ।।१५०॥ दृष्टः सप्रश्रयं श्रीमानवितृप्तविलोचनैः । जनैः स सिंहदंष्ट्रः सतुष्टांतःपुरपूर्वकैः ॥ १५१ ॥ ततः पुण्यदिने पुण्यपूर्णयोः पूर्णरूपयोः । विधिपूर्व तयोर्वत्तं पाणिग्रहणमंगलं ॥ १५२॥ स नीलयशसा शौरिनगरेऽसितपर्वते । रत्येव सहितः कामः कामभोगानसेवत ॥ १५३॥ नीलं नीलयशो यशो न जनितं स्त्रीभिर्जितः स्वैर्गुणैः शौरेः शौर्यशरीरिणो हि न यशः कृष्णीकृतं खेचरैः । तत्तत्र स्थितयोस्तयोः सुखरसं प्रेमप्रशक्तात्मनोः शाकल्येन जनो जिनप्रवचनज्ञों हि प्रवक्तुं क्षमः ॥ १५४ ॥ इत्यरिष्टनेमिपुराणसंग्रह हरिवंशे जिनेसनाचार्यकृतो नीलयशोवर्णनो नाम द्वाविंशः सर्गः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy