________________
हरिवंश पुराणं ।
३४२
द्वाविंशतितमः सर्गः । तयोः प्रेमतरुः सिक्तस्तनुस्पर्शसुखांभसा | रोमांचव्यपदेशेन व्यमुं चन् कर्कशंकुरान् ॥ १३४ ॥ पाणिग्रहणमाद्यं हि तदेवासीत्तदा तयोः । भावार्द्रीकृतयोः पश्चाद्भाविता व्यावहारिकं ॥ १३५ ॥ सद्यो विद्याधरी वृंदं खमुत्पत्य ततोऽखिलं । शौरिणा सह संहृष्टमुत्तरादिशमुद्ययौ ।। १३६ ।। भूषौषधिप्रभापिंडखंडितध्वांतसंततिः । रेजे खे खेचरस्त्रीणां संहतिस्तडितां यथा ।। १३७॥ तदा शौरिरिवार्कोऽपि करसंपर्कमात्रतः । प्राशीलाशाबधूवक्त्र मकरोत्प्रभयोज्ज्वलं ||१३८ ॥ अर्धोदितो बभौ भानुः पाटलः प्राग्वधूमुखे । दिवसस्य स्फुरद्वाढमर्धदष्ट इवाधरः ।। १३९ ॥ सर्वोदितमभात्प्राच्या मुखमंडलमंडनं । मार्तंडमंडलं यद्वत्सौवर्ण कर्णकुंडलं ॥ १४० ॥ रविणा शौरिणेवाशु भुवनद्योतकारिणा । द्यावापृथिव्यौ विस्पष्टै द्राक् दृष्टिप्रसरे कृते ॥ १४१ ॥ शौरिं हिरण्यवत्याह महारण्यनगावृतं । अधः पश्यसि यं भूमौ कुमार! गिरिमुन्नतं ।। १४२ ॥ श्रीमंतं प्रवदंतीमं ह्रीमंतं नामतो गिरिं । तपः श्रीमंतमाधत्त लोकं ड्रीमंतमप्ययं ॥ १४३ ॥ श्यामयाऽशनिवेगस्य दुहित्रांगारकः खगः। युद्धे खंडितविद्योऽत्र विद्यासिद्धिं प्रतिस्थितः॥ १४४ ॥ दर्शनेन तवास्याशु किल विद्या प्रसिद्धयति । तवाऽस्यानुग्रहेच्छा चेद्देहि देहि स्वदर्शनं ॥ १४५ ॥ इत्युक्तो विदितश्यामाक्षेमवार्त्तः स तोषवान् । जगाद किमनिष्टेन दृष्टेनांगारकेण मे ॥ १४६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org