________________
हरिवंशपुराणं।
३४१
द्वाविंशतितमः सर्गः। आगताऽस्मि ततो नेतुं भवंतं तत्र यादव । सा तवैव विदोद्दिष्टा तदेहि परिणीयतां ॥ १२१ ॥ स श्रुत्वा तदवस्थां तां चतश्चोरणकारिणीं । सोत्कंठितोऽपि तत्काले नैच्छच्चंपाविनिगमं ॥१२२।। आगमिष्याम्यहं तावत्त्वं तां तावतनूदरीं । अब ! बिंबाधरां गत्वा ममोदंतेन सांत्वय ॥१२३॥ सेत्युक्त्यनुज्ञया मुक्ता दत्ताशीरेवमस्त्विति । मनोरथरथारूढा गत्वा कन्यामसांत्वयत् ॥१२४।। स्नात्वा पयोधरोन्मुक्तैर्वसुदेवो नवोदकैः । कृत्वा पयोधराश्लेषं कांतया शयितोऽन्यदा ॥१२५॥ भीमदर्शनयाऽऽकृष्टकरो वैतालकन्यया । विबुद्धोऽताडयन्मुग्धो भुजेन दृढमुष्टिना ॥ १२६ ॥ नीतश्च निशि निस्त्रिंशनराकारभृता तया । रथ्यामार्गेण दुग्रोहं महापितवनं यदुः ।। १२७ ॥ मातंगीभिर्भशं भंगीसंगीताङ्गप्रभात्मभिः । संगतामिंगितज्ञोऽत्र मातंगी शौरिरेक्षत ॥ १२८ ॥ एहि स्वागतमित्याह सा हसंती तमेतया । सिक्ता वैतालविद्याभिर्हसत्यंतरधीयत ॥ १२९ ॥ मातंग इति मा मंस्था त्वं हिरण्यवतीत्यहं । कल्पो मातंगविद्यायाः शौरेऽयं कार्यसाधनः।।१३०॥ सेयं त्वा नाप्तितो म्लाना बाला चेतोमलिम्लुचं । बाला वष्टि दृढं नेतुं बाहुपाशेन बंधनं ॥१३१ ॥ तमित्युक्वांतिकं प्राप्तां सा नीलयशसं जगौ । बल्लभः स्पृश सोऽयं ते करेण करपल्लवं ॥ १३२॥ साऽनुज्ञाता करेणास्य पस्विन्नावयवा करं । प्रसारितागुलिं बाला स्वेदिनस्तादृशाग्रहीत् ॥१३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org