SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं। द्वाविंशतितमः सर्गः । जयः पुलस्त्यो विजयो मातंगो वासवादयः । कन्या कनकपुंजश्रीः कन्या कनकमंजरी ॥१०८॥ नमिश्च विनमिः पश्चाद्विपश्चित्पुत्रमंडले। न्यस्तविद्याधरैश्वयौँ निवृत्तौ जिनदीक्षितौ ॥ १०९ ॥ मातंगो विनमेः सूनुः सूनवस्तस्य भूरिशः । तत्पुत्रपौत्रसंतानो जातः स्वर्मोक्षसाधनः ॥११०॥ जिनस्य टेकविंशस्य तीर्थे मातंगवंशजः । राजा प्रहसितो जातः पुरे ह्यसितपर्वते ।। १११ ।। श्रीमातंगान्वयव्योमपतंगस्य प्रतापिनः । अहं हिरण्यवत्याख्या विद्यावृद्धस्य भामिनी ॥ ११२ ॥ पुत्रो मे सिंहदंष्ट्राख्यस्तस्य नीलांजना प्रिया। नीलनीरजनीलामा कन्या नीलंयशास्तयोः॥११३।। अनीलयशसस्तस्याः कुलशीलकलागुणैः । कृतोद्यमं मया वंशो वर्णितो लब्धवर्णया ॥ ११४ ॥ हरिवंशनभश्चंद्र ! चंद्रमुख्याऽवलोकितः । नृत्यंत्या त्वं तयेहैत्य वासुपूज्यमहाहवे ॥ ११५ ॥ तव दर्शनमतस्या सुखहेतुरभूद् यथा । दुःखहेतुस्तथैवाद्य वर्तते विरहे स्मृतं ।। ११६ ॥ न सा स्नाति न साभुंक्ते न सावक्ति न चेष्टते । साऽनंगशरशल्या च जीवतीति महाद्भुतं ॥११७॥ तस्यामेतदवस्थायां कुलमस्माकमाकुलं । न वेत्ति किं करोमीति पितृमातृपुरोगमं ॥ ११८ ॥ कन्याया मानसं प्रश्ने द्योतितं कुलविद्यया । पद्मिन्येवान्यथा भूत्या युवमातंगदूषितं ॥ ११९ ॥ ततो विनिश्चितास्माभिर्यादवश्च तवेप्सया । मत्तमातंगगामिन्याः कन्याया हृदयव्यथा ॥१२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy