________________
हरिवंशपुराणं ।
३३९
द्वाविंशतितमः सर्गः। आषाढं मानवं सूर्य स्वर्णनाभं शतइदं । अंगावतं जलावर्त तथावर्त्त वृहद्गृहं ॥ ९५ ॥ शंखवजं च नाभांतं मेधकूटं मणिप्रभ । कुंजरावत्तनगरं तथैवासितपर्वतं ॥ ९६ ॥ सिंधुकक्षं महाकक्षं सुकक्षं चंद्रपर्वतं । श्रीकूटं गौरिकूटं च लक्ष्मीकुटं धराधरं ॥ ९७॥ कालकेशपुरं रम्यं पार्वतेयं हिमायं । किंनरोद्गीतनगरं नमस्तिलकनामकं ॥ ९८ ॥ मगधासारनलकां पांशुमूलं परं तथा । दिव्यौषधं चार्कमूलं तथैवोदयपर्वतं ॥ ९९ ॥ विख्यातामृतधारं च मातंगपुरमेव च । भूमिकुंडलकूटं च जंबूशंकुपुरं परं ॥ १०॥ श्रेण्यां तु दक्षिणस्यां हि पुराण्येतानि पर्वते । शोभया स्वर्गतुल्यानि पंचाशचैव संख्यया ॥१०१।। पुरेषु तेषु च स्तंभास्तनिकायाख्ययाऽऽहिताः। ऋषभाधीशनागेशदित्यदित्यचयांकिता।।१०२॥ सूनवो विनमयुक्ता विनयेन नयेन च । नानाविद्याकृतोद्योता जाताः सुबहुशस्ततः ॥ १०३ ॥ संजयोऽरिंजयो नाम्ना शत्रुजयधनंजयौ । मणिचूलो हरिश्मश्रुमेघानीकाप्रभंजनः ॥ १०४ ॥ चूडामणिः शतानीकः सहस्रानीकसंज्ञकः । सर्वजयो वज्रबाहुमहाबाहुररिंदमः ॥ १०५॥ इत्यादयस्तु ते स्तुत्या उत्तरश्रेणिभूषणाः । भद्रा कन्या सुभद्रान्या स्रीरत्नं भरतस्य सा॥१०६॥ नमेस्तु तनया जाता बहुशो बहुरोचिषः । रविस्तनयसोमश्च पुरुहूतोंऽशुमान् हरिः ॥ १०७ ।।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only