SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । द्वाविंशतितमः सर्गः । वंशालयानां विद्यानां वंशालयगणः स्मृतः । पांशुमूलकविद्यानां विज्ञेयाः पांशुमूलिकाः ॥ ८२ ॥ विद्यानां वृक्षमूलानां खेचरा वार्श्वमूलिकाः । एवं ते क्रमशः प्रोक्ता निकायानां खचारिणः ||८३ || दशोत्तरशतं तेषां नगराणि खगामिनां । षष्टिरुत्तरभागे स्युः पंचाशद्दक्षिणे पुनः ॥ ८४ ॥ आदित्यनगरं रम्यं पुरं गगनवल्लभं । पुरी चमरचंपा च पुरं गगनमंडलं ।। ८५ ।। विजयं वैजयंतं च शत्रुंजयमरिंजयं । पद्मालं केतुमालं च रुद्राश्रं च धनंजयं ॥ ८६ ॥ वस्वौकं सारनिवहं जयंतमपराजितं । वराहं हस्तिनं सिंहं सौकरं हस्तिनायकं ॥ ८७ ॥ पांडुकं कौशिकं वीरं गौरिकं मानवं मनुः । चंपा कांचनमैशानं मणिवज्रं जयावहं ॥ ८८ ॥ नैमिषं हास्तिविजयं खंडिका मणिकांचनं । अशोकं वेणुमानंद नंदनं श्रीनिकेतनं ॥ ८९ ॥ अग्निज्वालं महाज्वालं माल्यं तत्पुरनंदिनी । विद्युत्प्रभं महेंद्रं च विमलं गंधमादनं ॥ ९० ॥ महापुरं पुष्पमालं मेघमालं शशिप्रभं । चूडामणि पुष्पचूडं हंसगर्भ बलाहकं ॥ ९१ ॥ वंशालयं सौमनसं तथैव परिकीर्त्तितं । विजयार्धोत्तर श्रेण्यां षष्टिरिष्टा इमाः पुरः ॥ ९२ ॥ रथनूपुरमानंदं चक्रबालमरिंजयं । मंडितं बहुकेत्वाख्यं नगरं शकटासुखं ।। ९३ ॥ पुरं गंधसमृद्धं च नगरं शिवमंदिरं । वैजयंतं रथपुरं श्रीपुरं रत्नसंचयं ॥ ९४ ॥ Jain Education International ३३८ For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy