SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराण । ३३७ द्वाविंशतितमः सर्गः । सर्वार्थसिद्धा सिद्धार्थी जयंती मंगला जया । संक्रामिन्यः प्रहाराणामशय्याराधनी तथा ॥७०॥ विशल्यकारिणी चैव व्रणरोहिणी तथा । सवर्णकारिणी चैव मृतसंजीवनी परा ।। ७१ ॥ सर्वाः परमकल्याण्यः सर्वो मंत्रपरिष्कृताः । सर्वविद्यावलैयुक्ताः सर्वलोकहितावहाः ॥७२॥ सर्वाः पठितविद्यास्ता विद्या दिव्यौषधिस्तथा । धरणो नमये तस्मै ददौ विनमयेऽप्यसौ ॥७३॥ धरणेंद्रवितीर्ण च विजयाधै धराधरे । नमिर्दक्षिणभागेऽस्थादुत्तरे विनमिस्तथा ।। ७४ ॥ नानाजनपदोपेतौ मित्रबांधवसंस्तुतौ । सुखेन तस्थतुर्वीरौ तौ श्रेण्योरुभयोरुभौ ।। ७५ ।। औषधीश्चापि विद्याश्च सर्वेभ्यो ददतुश्च तौ । विद्यानिकायसंज्ञाभिः ख्याताः विद्याधराश्च ते ।।७६।। गौरीणां गौरिका वेद्या मनूनां मनुनामकाः ।गांधारीणां च गांधारा मानवीनां च मानवाः ॥७७॥ कौशिकीनां च विद्यानां वेद्याः कौशिकनामकाः। भूमितुंडकविद्यानां भूमितुंडाः प्रभाषिताः।.७८॥ तथैव मूलवीर्यास्तु मूलवीर्यकखेचराः । शंकुकानां च विद्यानां शंकुकाः खेचराः स्मृताः ॥७९॥ विद्यानां पांडुकीनां च पांडुकेयाः प्रभाषिताः। कालाः कालकविद्यानां स्वपाकानां स्वपाकजाः।८०॥ मातंगीनां च विद्यानां मातंगा नामतो मताः । पर्वतानां च विद्यानां पार्वतेयाः खचारिणः ॥८॥ १ 'अशब्दाराधिनी । इति ख पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy