SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३३६ हरिवंशपुराणं। द्वाविंशतितमः सर्गः। मनुश्च मानवस्तत्र निकायः कौशिकस्तदा । गौरिकश्चैव गांधारो भूमितुंडश्च खंडितः ॥ ५७ ॥ निकायौ चापरौ ख्यातौ मूलवीर्यकशंकुको । ते चार्यादित्यगंधर्वास्तथा व्योमचराःस्मृताः ।।५८॥ दित्या चाष्टौ निकायास्ते विर्तार्णाः पन्नगाभिधाः। मातंगः पांडुकः कालः स्वपाकः पर्वतोऽपि च५९ वंशालयः पांशुमूलो वृक्षमूलस्तथाष्टमः । दैत्यपनगमातंगनामतः परिभाषिताः॥६०॥ षोडशानां निकायानामिमा विद्याः प्रकीर्तिताः। सर्वविद्याप्रधानत्वं या प्रपद्य व्यवस्थिताः ॥६१॥ प्रज्ञप्ती रोहिणी विद्या विद्या चांगारिणीरिता । महागौरी च गौरी च सर्व विद्यापकर्षिणी ॥२॥ महाश्वेताऽपि मायरी हारी निर्वज्ञशाडुला । सा तिरस्कारिणी विद्या छायासंक्रामिणी परा ॥६३॥ कूष्मांडगणमाता च सर्वविद्याविराजिता । आर्यकूष्मांडदेवी च देवदेवी नमस्कृता ॥ ६४ ।। अच्युतार्यवती चाऽपि गांधारी नितिः परा । दंडाध्यक्षगणाश्चापि दंडभूतसहस्रकं ॥६५॥ भद्रकाली महाकाली काली कालमुखी तथा । एवमाद्याः समाख्याता विद्या विद्याधरेशिन॥६६॥ एकपर्वा द्विपर्वा च त्रिपर्वा दशपर्विका । शतपर्वा सहस्राख्या लक्षपर्वाऽवलक्षिता ॥ ६७ ॥ उत्पातिन्यश्च ताः सर्वास्त्रिपातिन्यस्तथापि च । धारिण्यंतर्विचारिण्यो जलानिगातदक्षिणाः ॥६८॥ निःशेषेषु निकायेषु नानाशक्तिसमन्विताः । नानानगनिवासिन्यो नानौषधिचिदस्तथा ॥६९।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy