________________
हरिवंशपुराणं ।
द्वाविंशतितमः सर्गः ।
नर्त्तकी प्रेक्षण क्षिप्तश्चक्षुरिंगितलक्षितः । स तां प्रणाममात्रेण मानिनीमनयद्वशं ॥ ४५ ॥ विपक्षप्रेक्षणासक्तिसापराधेऽपि भर्त्तरि । स्त्रीणां प्रणयकोपस्य प्रणामो हि निवर्त्तकः ॥ ४६ ॥ अथ विद्याधरीवृद्धा वृद्धा विद्येव रूपिणी । तत्कन्ययान्यदोत्सृष्टा त्रिपुंड्रकृतमंडना ॥ ४७ ॥ एकांते सुस्थितं हर्म्ये कथंचिच्चित्तहारिणी । दत्ताशीः शौरिमाद्दैवमासीना सन्मुखासने ।। ४८ ।। पुराणवस्तुनो वीर ! विस्तरस्तव चेतसि । शुद्धादर्शतले यद्वद् यद्यपि प्रतिभासते ।। ४९ ॥ तथाप्यनूद्यते वस्तु मया विद्याधरश्रितं । सो (?) विषौषधिनाथस्य स्पृष्टं किं नौषधिः स्पृशेत् ॥ ५० ॥ प्रदर्शितजगज्जीव्यो युगाद्यो वृषभेश्वरः । भरतेश्वरविन्यस्तराज्योऽसौ प्राव्रजद् यदा ॥ ५१ ॥ राजक्षत्रोग्रभोजाद्यास्तदा तत्तपसि स्थिताः । चतुः सहस्रसंख्या ये प्राग्भग्नाश्च परीषहैः || ५२ || तेषां मध्ये तु यौ भग्नौ नमिर्विनमिरित्युभौ । भ्रातरौ पादयोर्लग्नौ भर्तुस्तस्थतुरर्थिनौ ॥ ५३ ॥ धरणेन शरण्येन निर्गत्य धरणैः सह । दित्यदित्यभिधानाभ्यां देवीभ्यामागतेन तौ ॥ ५४ ॥ आश्वास्य जिनभक्तेन विद्याकोशो जिनांतिके । ताभ्यां प्रदापितस्तेन स्वदेवीभ्यां महात्मना ॥ ५५ ॥ विद्यानामदितिस्त्वष्टौ निकायान् प्रददौ तदा। गांधर्वसेनकश्चासौ विद्याकोशः प्रकाशितः ॥५६॥
Jain Education International
३३५
For Private & Personal Use Only
www.jainelibrary.org