________________
हरिवंशपुराणं ।
द्वाविंशतितमः सर्गः ।
नमः सुमतिनाथाय नमः पद्मप्रभाय ते । नमः सुपार्श्वविश्वशे नमचंद्रप्रभाते || ३२ ॥ नमस्ते पुष्पदंताय नमः शीतलतायिने । नमोऽस्तु श्रेयसे श्रीशे श्रेयसे श्रितदेहिनां ॥ ३३ ॥ नमोस्तु वासुपूज्याय सुपूज्याय जगत्त्रये । वर्तते यस्य चंपायां निःकंपोऽयं महामहः || ३४ ॥ विमलाय नमो नित्यमनंताय नमो नमः । नमो धर्मजिनेंद्राय शांतये शांतये नमः ॥ ३५ ॥ नमस्ते कुंथुनाथाय तथाऽराय नमस्त्रिधा । मल्लये शल्यमल्लाय मुनिसुव्रत! ते नमः || ३६ ॥ नमोsस्तु नमिनाथाय नमितस्त्रिभुवने सदा । यस्येदं वर्तते तीर्थं सांप्रतं भरतावनौ ॥ ३७ ॥ अरिष्टनेमिनाथाय भविष्य तीर्थकारिणे । हरिवंशमहाकाशशशांकाय नमो नमः ३८ ॥ नमः पार्श्वजिनेंद्राय श्रीवीराय नमोऽस्तु ते । सर्वतीर्थंकराणां च गर्णेद्रेभ्यो नमः सदा ॥ ३९ ॥ कृत्रिमाकृत्रिमेभ्यश्च सदनेभ्योर्हतां नमः । भुवनत्रयवर्तिभ्यः प्रतिबिंबेभ्य एव च ।। ४० इत्थं कृत्वा स्तवं भक्त्या तौ प्रहृष्टतनूरुहौ । प्रणेमतुः शिरोजानुकरस्पृष्टधरातलौ ॥ ४१ ॥ पूर्ववत्पुनरुत्थाय कायोत्सर्जनयोगतः । पुण्यं पंचगुरुस्तोत्रमुदरीरचतामिति ॥ ४२ ॥ अर्हद्भयः सर्वदा सर्वसिद्धेभ्यः सर्वभूमिषु । आचार्येभ्य उपाध्यायसाधुभ्यश्च नमो नमः ॥ ४३ ॥ परीत्य जिष्णुधिष्ण्यंतौ रथमारुह्य हारिणौ । प्रविष्टौ दंपती चंपां संपदा परया ततः ॥ ४४ ॥
Jain Education International
३३४
For Private & Personal Use Only
www.jainelibrary.org