Book Title: Harivanshpuranam Purvarddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 410
________________ हरिवंशपुराणं। चतुर्विशः सर्गः । नाम्ना भूरिश्रवाः पुत्रः सोमश्रीस्तनयाऽनयोः । अस्याः स्वयंवरार्थ च समाहूता नरेश्वराः ॥५२॥ सोमश्रीनिशि हर्म्यस्था देवागमनदर्शनात् । जातिस्मरणसंयुक्ता मुमूर्च्छ प्रेमवाहिनी ।। ५३ ॥ लब्धसंज्ञा समुत्थाय ध्यायंती स्वर्गिणं पतिं । स्नानाशननिवृत्तेच्छा मौनव्रतमशिश्रियत् ॥५४॥ एकांते पृष्टया कृच्यात् कथितं च ममानया। पूर्वजन्मनि देवेन सह क्रीडितमात्मनः ॥ ५५॥ पूर्वप्रच्युतदेवस्य हरिवंशे समुद्भवः । विज्ञातश्चानया देव्या सत्यात् केवलिभाषितात् ॥ ५६ ॥ समागमश्च विज्ञातः पत्या हस्तिभयच्छिदा। संवादे चाधुना जाते सा ते वांछति संगमं ॥५७॥ राज्ञा मद्वचनाज्ज्ञात्वा प्रेषिताहं तवांतिकं । सौम्य ! सोमश्रिया साकं भज विवाहमंगलं ॥ ५८ ॥ इत्यावेदितसंबंधः स तुष्टोऽधकवृष्टिजः । सोमश्रियमुवाहेष्टां सोमदत्ततनूद्भवां ॥ ५९॥ स्वास्यारविंदसौगंधमकरंदोपयोगिनोः । काले याति सुखे तावत् सोमश्रीवसुदेवयोः ॥६०॥ अथ कोऽप्येकदा भर्तुर्भुजपंजरशायिनीं । सोमश्रियं श्रियं वाऽरिरहरनिशि खेचरः ॥६१ ॥ विबुद्धस्तु पतिः पत्नीपमश्यन् परमाकुलः । सोमश्रीः क गताऽसि त्वमेह्येहीति जुहाव तां ।। ६२ ।। वचोऽनंतरमेषाऽहमिति दत्त्वा वचः श्रितां । खेटस्वसारमद्राक्षीत्सोमश्रीरूपवर्तिनीं ॥ ६३ ॥ निष्क्रांतासि वहिः कांते किमर्थमिति नोदिता । धर्मशांत्यर्थमित्याह सोमश्रीरिव सा स्वयं ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450