Book Title: Harivanshpuranam Purvarddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 403
________________ हरिवंश पुराणं । ३५४ त्रयोविंशः सर्गः । स्वयंवरे नरश्रेष्ठः कन्यया सगरो वृतः । वृतक्षत्रसमूहेन भोगाशक्तोऽवतिष्ठते ॥ १२५ ॥ इति श्रुत्वा महाक्रोधः समृत्वा मधुपिंगलः । जातोऽवनिकायेषु महाकायो धमामरः ॥ १२६ ॥ अहो कषायपानस्य वैषम्यं यद्विरोधिनः । सम्यक्तौषधिपानस्य जातमत्यंतदूषणं ।। १२७ ।। सुलसापहृतिं ध्यात्वा सोपायां सगरेण सः । क्रोधाग्निना महाकालो जज्वाल हृदये भृशं ॥ १२८ ॥ स्त्रीवैरविषदग्धस्य हृदयस्य विदाहिनः । स दाहोपशमं कर्त्तुं न शशाक शर्माांबुना ॥ १२९ ॥ अर्चितयदसौ येन शत्रोर्दुःखपरंपरां । जायते दीर्घसंसारे तमुपायं करोम्यहं ।। १३० ॥ प्राणी प्रत्यपकाराय चेष्टते ह्यपकारिणः । तैरुपायैर्यकैर्याति मूढधीः स्वयमप्यधः ॥ १३१ ॥ आगतश्च महाकालः क्षत्रक्रोधेन दीपितः । नारदेन जितं जल्पे पश्यति स्म स पर्वतं १३२ ॥ शांडिल्याकृतिरूपोऽय तस्य विश्वासमाह सः । मागः पर्वत ! निर्वेदं जल्पेऽहं जित इत्यलं ॥ १३३ ॥ धौव्यनाम्नो गुरोः शिष्यः शांडिल्योऽहं पिता च ते । चैन्यश्वापि तथोदचः प्रावृतश्चैव पंचमः ॥ १३४॥ सूनोः क्षीरकदंबस्य भवतो यः पराभवः । स ममैव ततोऽस्याहं मार्जनाय समुद्यतः ।। १३५ ।। सहायं मां परिप्राप्य कुरु क्षेत्रमकंटकं । मरुत्सखस्य रौद्रस्य शिखिनः किमु दुष्करं ।। १३६ ।। इति पर्वतमाभाष्य पुरस्कृत्य स दुष्टधीः । सक्षत्रं भरतक्षेत्रं चक्रे व्याधिशताकुलं ॥ १३७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450