________________
हरिवंशपुराणं ।
२४२
विदित पूर्वभवाऽत्र मनोहरा जगति चंद्रकलेव मनोरमा ॥ २७ ॥ कुलमुवा विवाहविधोचितं शुचि यथैव तथाकृतभावितं ।
शिशुसमागममाशु विधिः स्वयं कृतिषु यद् यतते सकला स्वयं ॥ २८ ॥ मिथुनमर्भकयोः सुखलालितं निजनिषंगकृताक्षिनिमीलितं । स्मितमुखं मुखं वचनाध्वनि स्वजन तोषमपोषयदुद्ध्वनि ॥ २९ ॥ स्वजननीस्तनपानकृताशनं निजरुचोपमितार्क हुताशनं ।
पंचदशः सर्गः ।
भजति भोगभुवां शिशुभावनां विजयिनीं मिथुनं स्म सुभावनां ॥ ३० ॥ स्वतनुवृद्धिमतश्च शनैः शनैः सह कलाभिरिदं च दिने दिने ।
शशिवपुर्वदियाय यथा यथा स्वजनमुज्जेलधिश्च तथा तथा ॥ ३१ ॥ निखिलखेचरसाधितविद्यया मिथुनमेतद्भाद् भवविद्यया ।
ललितयौवनभाररुचा तथा जनमनोऽत्यहरद् गुणयातया ॥ ३२ ॥ अथ तया स खगेंद्र युवाऽन्यदा कमलयेव च खेचरकन्यया ।
१ विधोचितभावितं इति ख पुस्तके । २ स्वजनहर्षोदधिः । ख पुस्तके 'जनमनोमुदितं च तथा तथा ' इति पाठः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org