Book Title: Haimshabdanushasanam Laghunyas Sahitam Author(s): Hemchandracharya, Publisher: ZZZ Unknown View full book textPage 8
________________ श्रीहेमश० वर्णः शपसाश्च शिसंज्ञा भवन्ति । अकारककारपकारा उच्चारणार्थाः । बहुवचनं वर्णेष्वपठितयोरपि ४ क पयोर्वर्णत्वार्थम् । शिट्मदेशाः 'शिटः प्रथमद्वितीयस्य (१।३।३५) इत्यादयः ॥ १६ ॥ तुल्यस्थानास्यप्रयत्नः स्वः । १.१।२७॥ यत्र पुडलस्कन्धस्य वर्णभावापत्तिस्तत्स्थानं कण्ठादि । यदाहु-'अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ॥ जिहामूलं च दन्ताश्च नासिकौष्ठौ च तालु च ॥ १॥ अस्यत्यनेन वर्णानित्यास्यम् ओष्ठात्मभूति प्राक् काकलकसंज्ञकाक ण्ठमणेः। आस्ये प्रयत्र आस्यप्रयत्नः, आन्तरः संरम्भः । स चतुर्धा, स्पृष्टता १ ईपत्स्पृष्टता २ विवृतता ३ ईपद्विवृतता ४। तुल्यौ वर्णान्तरेण सदृशौ स्थानास्यमS यनौ यस्य स वर्णसं प्रति स्वसंज्ञो भवति । करणं तु जिह्वामूलमध्याग्रोपाग्ररूपं स्थानास्यप्रयत्नतुल्यत्वे सति नातुल्यं भवतीति पृथग्रोक्तम् । तत्र स्थानम् अवर्णहविसर्गक वर्गाः कण्ठ्याः । 'सर्वमुखस्थानमवर्ण हविसर्गातुरस्यौ कवर्गो जिह्वामूल' इत्यन्ये । इवर्णचवर्गयशास्तालव्याः। उवर्णपवर्गोपध्मानीया ओठयाः । ऋवर्णटवर्गरपा मूर्धन्याः । 'रेफो दन्तमूल' इसके । लुवर्णतवर्गलसा दन्याः । ए ऐ तालव्यौ । 'कण्ठतालव्यौ' इसन्ये । ओ औ ओष्टयौ । 'कण्ठोष्ठयौ' इत्यन्ये । वो दन्यौष्टयः । सक्कस्थानः' इत्यन्ये । जिह्वामूलीयो जियः। कण्ठ्यः' इसन्ये । नासिक्योऽनुस्वारः। 'कण्ठयनासिक्यः' इत्यन्ये । उनणनमाः स्वस्थाननासिकास्थानाः॥ अथास्यप्रयत्नः। स्पृष्टं करणं स्पर्शानाम् । स्पर्शा वाः । ईपत्स्पृष्टं करणमन्तस्थानाम् । ईपद्विवृतं करणमूष्मणाम् । विवृतं करणं स्वराणाम् । 'ऊष्मणां च ' इत्यन्ये । 8 ऊष्माणः शपसदाः । स्वरेषु एओ विवृततरी । ताभ्यामपि ऐ औ । ताभ्यामध्यवर्णः। 'अकारः संवृतः' इत्यन्ये । तत्र त्रयोऽकारा उदातानुदात्तस्वरिताः प्रत्येक सामानाधिकरण्येऽल्पीयस्त्वज्ञापनाय शिडियेकवचनेन निर्देश कृत ॥ अथ कथमनवोर्णित्वम् , वर्णसमानाये पाठाभावात् । सत्यम् । रेफस्य वर्णवात्तयोच रेफादेशत्वाद्वर्णत्वसिद्धि । नच वर्णा देशत्वेन लोपस्यापि वर्णत्वमाशङ्गनीयम् । तस्याभावरूपत्वात् । गचाभावो भावस्याश्रयो भवितुमर्हति, अतिप्रसगात् । अवमेवार्थो बहुवचनेन सुच्यते । अनुबादत्त्वेन तस्य साधकत्वाभावाSदित्याह-बहुवचनमिति ॥ ननु क पयोध्यञ्जनसज्ञापि पूर्वेपामस्ति सत्कथ तै सह न विरोध । उच्यते । रेफस्थानित्वेन प्यजनसज्ञापीति न विरोधः ॥-तुल्य-॥ तोल्यतेऽनया भिदा चडि तुला । तुलया समितस्तुल्य । 'हृयपद्य -इत्यादिना य । प्रयत्न उत्साह ॥-नासिकौठौचेति । व्यस्तावेती, समासे तु 'प्राणितूर्व'-इति समाहार स्यात् ॥ कलयति ईपदास्थभावम् , जव, अल्पावर्षे कपि णके वा, कुईपकलक काकलक । 'अस्ये' इति कादेश । काकलक इति सज्ञा यस्य स तथा । ग्रीवायामुन्नतप्रदेश ॥-आन्तर इति । अन्तरा भव 'भवे' अण् । अन्तीतो या, भवे त्वर्थे दिगादित्वाद्य स्यात् ॥ स्पृश्यन्ते स्म स्पृष्टा वर्णी । तेषां भाव स्पृष्टता वर्णाना प्रवृत्तिनिमित्तम् । स्पृष्टताहेतुत्वात्प्रयत्नोऽपि स्पृष्टता । 'अनादिभ्य ' इसाप्रत्यये वा ।। सज्ञाशब्दत्वात् खीत्वम् । प्रयत्नाना सज्ञा इमा यथाकथाचित् व्युत्पाद्यन्ते । एव सर्वत्र । एवमीपरस्पृष्टताऽपि । विवियन्ते स्म विवृता वर्णास्तेपां भाव ॥ ईपद्वित्रियन्ते स्मेत्यादि-कर १ वर्णोत्पत्तिकाले स्थानाना प्रयत्नाना च सहकारि कारणम् ॥-सवेति । सर्व मुख स्थानमस्य । मुखस्थितानि सर्वाथ्यपि स्थानानि अवर्णस्येत्यर्थं ॥-कण्ठतालव्याविति । कण्ठतालु देहांशसमुदायादपि च ॥-स्वरेषु एओ विवृततराविति ॥ ननु विवृततरताविवृततमताऽतिविततमतास्पाणां प्रयवान्तराणा सहायात् सप्तधा प्रयत इति वक्तुमुचितं कर . सत्यम् । विवृतरतादीन्यपि विवृततया परिगृहोक्त चतुर्धा इति । विशेषस्य सामान्येऽन्तभावात् ॥-अकारः संवृत इत्यन्ये इति । सवृतताख्य पञ्चम प्रयतमन्ये मन्यन्त इला 'Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 1131