Book Title: Haimshabdanushasanam Laghunyas Sahitam Author(s): Hemchandracharya, Publisher: ZZZ Unknown View full book textPage 7
________________ च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न प फ ब भ म, य र ल व श ष स ह । व्यजनप्रदेशा 'नाम सिदव्याने' (१।१ । २१) इत्यो अपश्चमान्तस्थो धुद।१।१।११॥ वर्गपश्चमान्तस्थावजितः कादिर्वर्णो धुसंज्ञो भवति । क ख ग घ च छ ज झ ट ठ ड ढ त थ द ध, 4 प स ह । धुपदेशा 'धुटो धुटि स्खे वा' (१।३।४८) इत्यादयः ॥ ११॥ पञ्चको वर्गः।१।१।१२॥ कादिषु वर्णेषु यो यः पञ्चसंख्यापा वर्णः स स वर्गसंज्ञो भवति । क ख ग घ ङ । च छ ज झ ट ठ ड ढ ण । त थ द ध न । प फ ब भ म । वर्गप्रदेशाः 'कवणुकस्वरवति' (२।३।७७." इत्यादयः॥ १२ ॥ आद्यदितीयशषसा अघोषाः । १।१।१३॥ वर्गाणामाचद्वितीया वर्णाः शपसाश्चाघोपा भवन्ति । क ख, च छ, ट ठ, त थ, प फ, श प स । बहुवचनं सर्ववर्गाणामाद्यद्वितीयपरिग्रहार्थम् । अघोपपदेशा 'अघोपे प्रथमोऽशिटः (१।३।५०) इत्यादयः॥ १३ ॥ अन्यो घोपवान् ।१।१। १४ ॥ अघोषेभ्योऽन्यः कादिवर्णो घोषवत्संज्ञो भवति । ग घ ङ ज झ ज ड ढ ण द ध न ब भ म य र ल व ह । घोपवत्सदेशा 'घोषवति' (१।३ । २१) इत्यादयः ॥ १४॥ यरलवा अन्तस्थाः।१।१।१५॥ यरलव इसेते वर्णा अन्तस्थासंज्ञा भवन्ति। बहुवचनं सानुनासिकादिभेदपरिग्रहार्थम् । अन्तस्थामदेशा 'अञ्वर्गस्यान्तस्थातः' (१।३ । ३३ ) इसादयः ॥ १५ ॥ अं अः क पशषसाः शिट् । १।१।१६ ॥ अनुस्वारो विसर्गो वज्राकृतिर्गजकुम्भाकृतिश्च VevaAVAVAL प्रकटीक्रियतेऽयोऽनेनेति व्यञ्जन स्वराणामर्थप्रकाशने उपकारक यथा सूपादीन्योदनस्येति । कस्य आदि. कादिरिति व्यारयाने व्यवस्थावाच्यप्यादिशब्द । तेन स्वराणा न व्यक्षनसंज्ञा अनुस्वारविसर्गयोस्तु भवति । ततोऽनुस्वारस्य व्यञ्जनसंज्ञाया संस्कर्तेत्यत्रानुस्वाररूपम्यञ्जनात्परस्य सस्य 'धुटो धुटि स्वे वा' इत्यनेन लुक् सिद्ध । विसर्गस्य तु व्यञ्जनत्वे सुपूर्वस्य दुखयते किपि णिलुकि सेश्व लुकि 'पदस्ख' इति विसर्गरूपसंयोगान्तस्थस्य खस्य लुक् सिद्ध, विसर्गस्य च कस्यादिरिति व्युत्पत्या 'अपञ्चमान्तस्थ'-इति धुत्वे च धुटस्तृतीय इति स्थान्यासने गत्वे सति सुदुगिति सिद्धम् ॥-पञ्चको-॥ सजातीयसमुदायो वर्ग । स च वर्ग कवर्गादिभेदेनाष्टधा वर्णसमानाये केवलिकादिशाखेषु प्रसिद्ध । तत्र च य पञ्चसस्यात्वेन व्यवस्थितस्तस्येह वर्गसज्ञेति अत आहकादिप्विति ॥-योय इति । सज्ञिना बहुत्वादगृहीतचीप्सोऽपि पञ्चशब्दो वीप्सा गमयति ॥ वृणोत्यात्मीयमेकत्वेन व्यवस्थापयक्ति 'गन्यमि' इति गे वर्ग । जात्यपेक्षमेकवचनम् ॥-आद्य-॥ अविद्यमानो घोषो येषा, यथाऽनुदरा कन्येति । बहुव्रीहिणा गतत्वान्न मतु. ॥ ननु लाघवार्थ समाहार एव युक्तो यतो मात्रालाघवमपि उत्सवाय मन्यन्ते वैयाकरणा इत्याह-बहुवचनमिति । अन्यथा शपससाहचर्यात् कखयो. केवलयोरेव ग्रह स्यात् । अव्यभिचारिणा व्यभिचारी यत्र नियम्यते तत्साहचर्यम् ।।-अन्यो-॥ घोपो ध्वनिर्विद्यते यस्य स तथा । अन्वर्थता च 'तुल्यस्थानास्य'-इत्पन्न दर्शयिष्यते । घोपवानिति जातिनिर्देश । अघोपापेक्षया चान्यत्वम् । तेन येषामतिशायी घोपस्तेऽन्यत्वज्ञात्यध्यासिता घोपयन्त इत्यर्थः ॥-यर-॥ लिगमशिष्य लोकाश्रयत्वात् इति वर्णविशेषणमपि अन्तस्थाशब्द. स्त्रीलिङ्गो बाहुलकात् शब्दशक्तिस्वाभाब्यात् बहुत्ववृत्तिा प्राय इति ॥-यरलव इतीति । अर्थववाभावे नामत्वाभावान्न स्यादि.॥-अं अ-॥ शिक्षुट्शब्दयोर्विषयनामत्वात्पुस्त्वम् ॥ ४ क १८ पयोदेशकाललिपिभेदेऽपि रूपाभेदादृष्टान्तमाह-वज्राकृतिरिति । वनस्येव आकृतिर्यस्य स तथा । गजकुम्भयोरिवाकृतियस्य सोऽपि तथा । ककारपकारी चानयो. परदेशस्थावुच्चार्यते । सर्वत्र परसबद्धावेवैती भवतो न स्वतत्रौ । नापि पूर्वसंबद्धावनुस्वारवदिति । रेफादेशत्वात्कखपफसनिधावेव तयो. प्रयोगादल्पविषयत्वम् । अत एव सत्यपि संज्ञिPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 1131