Book Title: Haimshabdanushasanam Laghunyas Sahitam
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 10
________________ श्रहमेश० ॥५॥ निसंसर्गाद्धोपो जायते । यदा तु श्वासोऽनुमदीयते तदा श्वासध्वनिसंसर्गादघोषो जायते । अल्पे वायावल्पप्राणता, महति महाप्राणता जायते । महाप्राणत्वादुष्मत्वम् । यदा सर्वाङ्गानुसारी मस्तीयो भवति तदा गात्रस्य निग्रहः कण्डविलस्य चाणुत्वं स्वरस्य च वायोस्तीयगतित्वाद्रौक्ष्यं भवति तमुदात्तमाचक्षते । यदा तु मन्दः प्रयत्नो भवति तदा गात्रस्य संसनं कण्ठविलस्य च महत्त्वं स्वरस्य च वायोर्मन्दगतित्वात्स्निग्धता भवति तमनुदाचमाचक्षते । उदातानुदाचस्वरसंनिपातात्वरित इत्येष कृत्यो वाः प्रयत्न इति ॥ अथवा, विवारादयो वर्णनिष्पत्तिकालादूर्ध्वं वायुवशेनोत्पयन्ते स्पृष्टतादयस्तु स्थानास्यप्रयत्नव्यापारेण वर्णोत्पत्तिकाल एवेति वर्णनिष्पत्तिकाभावाभावाभ्यां विवारादीनां वाह्य स्पृष्टतादीनां चाभ्यन्तरत्वम् ॥ तत्र वर्गाणां प्रथमद्वितीयाः शपसविसर्गजिामूलीयोपध्मानीयाश्च विवृतकण्ठाः श्वासानुमदाना अघोपाः । वर्गाणां तृतीयचतुर्थपञ्चमा अन्तस्था हकारानुस्वारौ च संवृतकण्ठा नादानुमदाना घोपवन्तः । वर्गाणां प्रथमतृतीयपञ्चमा अन्तस्थायाल्पमाणाः । इतरे सर्वे महाप्राणाः ॥ स्थानग्रहणं किम् । कचटतपानां तुल्यास्यप्रयत्नानामपि भिन्नस्थानानां माभूव । कि च स्यात् । वर्मा, तर्तुमित्यत्र 'घुटो घुटि स्वे वा' (१ । ३ । ४८) इति पकारस्य तकारे लोपः स्यात् । आस्यमयत्नग्रहणं किम् । चवर्गयशानां तुल्यस्थानानामपि भिन्नास्यप्रयत्नानां माभूव । कि च स्यात् । अरुक् श्रोततीत्यत्र 'घुटो टिस्वा ' (१ | ३ | ४८ ) इति शकारस्य चकारे लोपः स्यात् । स्वप्रदेशा 'इवर्णादेरस्व स्वरे यवरलम् ' ( १ । २ । २१ ) इसादयः ॥ १७ ॥ स्वौजसमौशस्याभ्यांभिस्ङेभ्यांभ्यस्ङसिभ्यांभ्यस्ङसोसांङयोस्सुपां त्रयीत्रयी प्रथमादिः । १ । १ । १७ ॥ स्यादीनां प्रत्ययानां त्रयी त्रयी यथासंख्यं प्रथमाद्वितीयतृतीया चतुर्थीपञ्चमीपष्ठी सप्तमी संज्ञा भवति । इजराटढपा अनुवन्धाः 'सौ नयेतौ ' (१ । २ । ३८ ) इसादौ विशेषणार्थाः । बहुवचनं स्याद्यादेशानामपि प्रयमादिसंज्ञाप्रतिपत्त्यर्थम् । प्रथमादिमदेशा 'नाम्नः प्रथमैकद्विवहौ' ( २ । २ । ३१ ) इत्यादयः ॥ १८ ॥ स्त्यादिर्विभक्तिः । १ । १ । १९ ॥ स इत्युत्सृष्टानुबन्धस्य सेर्ग्रहणम् । ति इति उत्सृष्टानुबन्धस्य तिवः । आदिशब्दो व्यवस्थावाची । स्यादयस्तिवादयश्थ प्रत्ययाः सुप्स्यामहिपर्यन्ता विभक्तिसंज्ञा भवन्ति । विभक्तिप्रदेशा रसजननार्थमेकत्र मील्यते । 'भुजिपत्यादिभ्य ॥ निग्रह इति । स्तब्धव कठिनत्वमिति यावत् ॥ अणुत्यम् । सूक्ष्मत्वम् ॥ ससनम् । यत्यमित्यर्थ ॥ वर्णनिष्पत्तिकालभावेति । अल्पस्वरत्वेन भावशब्दस्य पूर्वनिपात ॥ श्वासलक्षणमनुप्रदान येषां से तथा ॥ इतरे इति । इतरव पूर्ववाक्यापेक्ष न सर्वेपामित्यर्थ ॥ उदात्तादीना स्वरेष्वेव सभवान व्यञ्जनेषु इति व्यक्षनोत्पत्तो न कथ्यन्ते उदासादयो बालप्रयता ॥ स्योजस्। यी प्रयीति भवनक्रियाया वीप्सा ॥-विशेषणार्थ इति । विशेषो विशेषण व्यवच्छेद इति यावत् । तत्प्रयोजना इत्यर्थ प्रथम आदिस्य सज्ञासमूहस्य || बहुवचनमिति । तदादेशास्तद्वद्भवन्तीति न्यायात् साध्यसिद्धिर्भविष्यति कि बहुवचनेन । सत्यम् । न्याय विनापीत्य साधितम् । इय हि महती स रिभापा न्यायाच विना साध्यत इति ॥स्त्यादिः ॥ विभज्यन्ते विभागशः प्रकाश्यन्ते कर्तृकर्मदयोऽथा अनवेति विभजन वा । आदिभ्य इति ति. ॥ अनुबध्यते कार्या इत्यनुबन्ध इत् । उत्सृष्टस्त्योऽनुबन्धो येन यस्य वा स तथा तस्य ॥व्यवस्थाबाचीति । तेन ये यदनुवन्धा यावन्तो विभक्तिसज्ञाया पूर्वीचयवस्थापितान्त एव तदनु SALA

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 1131