Book Title: Haimshabdanushasanam Laghunyas Sahitam Author(s): Hemchandracharya, Publisher: ZZZ Unknown View full book textPage 9
________________ caceerमर सानुनासिकनिरनुनासिकभेदात् षट् । एवं दीर्घाताविति अष्टादश भेदा अवर्णस्य । ते सर्वे कण्ठस्थाना विवृतकरणाः परस्परं स्वाः । एवमिवार विवृतकरणाः स्वाः । उवर्णा ओष्ठ्या विवृतकरणाः स्वाः । ऋवर्णा मूर्धन्या विवृतकरणाः स्वाः । लवर्णा दन्त्या विवृतकरणाः स्वाः। 'लुवर्णस्य दीर्घा ना॥ कवद्वादश' इत्यन्ये । संध्यक्षराणां हस्वा न सन्तीति तानि प्रयेकं द्वादशभेदानि । तत्र एकारास्तालव्या विवृततराः स्वाः। ऐकारास्तालव्या अतिविवृततराः से ५॥ ओकारा ओष्ठया विवृततराः स्वाः। औकारा ओष्ठया अतिविवृततराः स्वाः। वाः पञ्च पञ्च परस्परं स्वाः । यलवानामनुनासिकोऽननुनासिकश्च द्वौ भेदौ परस्प.. स्वौ । रेफोष्मणां त्वतुल्यस्थानास्यप्रयत्नत्वात् स्वा न भवन्ति । आस्यग्रहणं ब्राह्यप्रयत्ननिवृत्त्यर्थम् । ते हि 'आसन्नः' (७।४ । १२० ) इसत्रैवोपयुज्यन्ते न स्वसंज्ञायाम् । के पुनस्ते ? विवारसंवारौ श्वासनादौ घोषवदघोषता अल्पमाणमहापाणता उदात्तोऽनुदात्तः स्वरितश्चेत्येकादश । कथं पुनरेते आस्याद्वाह्याः स्पृष्टतादयस्तु आन्तराः । उच्यते । वायुना कोठेऽभिहन्यमानेऽमीपां प्रादुर्भावात् । स्पृष्टतादीनां तु कण्ठादिस्थानाभिघाते भावात् । तथा चापिशलिः शिक्षामधीते-'नाभिप्रदेशात्प्र* यत्नप्रेरितः पाणो नाम वायुरुर्ध्वमाक्रामन्नुरप्रभृतीनां स्थानानामन्यतमस्मिन् स्थाने प्रयत्नेन विधार्यते । स विधार्यमाणः स्थानमभिहन्ति । तस्मात् स्थानाभिघाता द्धनिरुत्पद्यते आकाशे, सा वर्णश्रुतिः, स वर्णस्यात्मलाभः । तत्र वर्णध्वनावुत्पद्यमाने यदा स्थानकरणप्रयत्नाः परस्परं स्पृशन्ति सा स्पृष्टता । यदेपस्पृशन्ति सेप-१६ स्पृष्टता । यदा सामीप्येन स्पृशन्ति सा संवृतता । दुरेण यदा स्पृशन्ति सा विवृतता । एपोऽन्तःप्रयत्नः । स इदानीं प्राणो नाम वायुरूप्रमाक्रामन्मूर्ति प्रतिहतो १ निवृत्तः कोष्ठमभिहन्ति । तत्र कोठेऽभिहन्यमाने कण्ठविलस्य विवृतत्वाद्विवारः । संवृतत्वात्संवारः। तत्र यदा कण्ठविलं विवृतं भवति तदा श्वासो जायते । संहते तु नादः। तावनुमदानमाचक्षते । अन्ये तु ब्रुवते 'अनुमदानमनुस्वानो घण्टादिनिहादवदिति । तत्र यदा स्थानकरणाभिघातजे ध्वनौ नादोऽनुमदीयते तदा नादध्वशिक्षायामेके पठन्ति । तेनाकाराकारयो संवृतविवृतयोभिन्नप्रयवत्वात् स्वसज्ञा न प्रामोतीति विवृत एवात्र प्रतिज्ञायान्य इत्युक्तम् । तेहिं प्रयोगेऽपि सवृत एवासौ स्वरूपेणेत्यभ्युपगम्यते ॥-सानुनासिकेति । नासिकामनुगतो यो वर्णधर्मः स तथा ॥ सह तेन वर्तते यो वर्ण. स तथा ॥ निर्गतोऽनुनासिकाद्य स तथा ॥ स्वर सजातो येषां ते स्वरिताः । यथाकथंचित् व्युत्पत्तिः ॥अनुनासिक इति । अनुनासिको धर्मोऽस्यास्तीति अन्नादित्वाद । तद्धर्मरहितोऽननुनासिक इति ॥-रेफोष्मणां त्विति । अन्यवर्णापेक्षया तेषां स्वत्वाभायो रेफस्य तु रेफ स्वो भवत्येव । एवमूप्मणामपि स्वा न भवन्तीति ॥ ननु वर्णानां तुल्यास्यप्रयतत्वे क्थ श्रुतिभेद । उच्यते । कालपरिमाणकरणप्राणकृतगुणभेदात् श्रुतिभेदः । तथाहि-यावता कालेनाक्ष्ण उन्मेपो निमेपो वा भवति तावान्कालो मात्रा । मानाकालो वणों मात्रिक । द्विस्तावान् द्विमान्न । निस्तायाम् त्रिमात्रः । अर्धमानाकाल व्यञ्जनम् । तदिदं वर्णेषु चतुर्विध कालपरिमाण भेदकृद् भवति । करणं च श्रुतिभेदकरं भवति । तत्रागेवोक्तम् । प्राणकृताश्च गुणभेदा घोषाघोपादय इति ॥-निवृत्त्यर्थमिति । तेनारुक्क्षयोततीत्यन्न शकारचकारयोस्तुल्यस्थानवाट्यप्रयतत्वे सत्यपि 'बुटो धुटि '-इति शकारस्य चकारे लोपो न भवति ॥-121 ते ह्यासन्न इत्यत्रैवेति । 'आसन्नः' इत्यत्रापि महाप्राणस्यवावकाशः । अन्येषां च वेदे प्रयोजनम् ॥-उपयुज्यन्त इति । उपयुक्ता भवन्तीत्यर्थः ॥-शिक्षामिति । वर्णोत्पत्तिप्रतिपादकं शासम् ॥-कोष्ठे उदरे ॥-अन्यतमस्मिन्निति । मतान्तरेणाय साधु' । स्वमतेऽन्यतरग्रहणादन्यस्वार्थिकप्रत्ययान्तानां सर्वादित्वनिषेधान्न सिध्यति ॥-अनुप्रदानमिति । अनुप्रदीयते वर्णान्त EncodedeeoPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 1131