Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 01
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 343
________________ ३२६ षड्विधमावश्यकम् 'क्षायोपशमिकाद्भावादौदयिकवशं गतः । तत्रापि च स एवार्थः, प्रतिकूलगमात् स्मृतः ॥१॥' वीप्सार्थे वा प्रतिशब्दः प्रति प्रति क्रमणं प्रतिक्रमणं, उक्तञ्च - ___ 'प्रति प्रति प्रवर्तनं वा शुभेषु योगेषु मोक्षफलदेषु । निःशल्यस्य यतेर्यत्तद्वा ज्ञेयं प्रतिक्रमणम् ॥१॥ ॥१७५।' आवश्यकनियुक्तौ हरिभद्रसूरिकृततद्वृत्तौ चोक्तम् - 'सपडिक्कमणो धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमयाण जिणाणं कारणजाए पडिक्कमणं ॥१२४४॥ (छाया- सप्रतिक्रमणो धर्मः पुरिमस्य च पश्चिमस्य च जिनस्य । मध्यमानां जिनानां कारणजाते प्रतिक्रमणम् ॥१२४४॥) वृत्तिः - सप्रतिक्रमणो धर्मः पुरिमस्य च पश्चिमस्य च जिनस्य, तत्तीर्थसाधुना ईर्यापथागतेनोच्चारादिविवेके उभयकालं चापराधो भवतु मा वा नियमतः प्रतिक्रान्तव्यं, शठत्वात्प्रमादबहुलत्वाच्च, एतेष्वेव स्थानेषु मध्यमानां जिनानाम् अजितादीनां पार्श्वपर्यन्तानां कारणजाते अपराध एवोत्पन्ने सति प्रतिक्रमणं भवति, अशठत्वात्प्रमादरहितत्वाच्चेति गाथार्थः ॥१२४४॥ मिच्छत्तपडिक्कमणं तहेव अस्संजमे पडिक्कमणं । कसायाण पडिक्कमणं जोगाण य अप्पसत्थाणं ॥१२५०॥ (छाया- मिथ्यात्वप्रतिक्रमणं तथैव असंयमे प्रतिक्रमणम् । कषायाणां प्रतिक्रमणं योगानां चाप्रशस्तानाम् ॥१२५०॥) वृत्तिः - मिथ्यात्वमोहनीयकर्मपुद्गलसाचिव्यविशेषादात्मपरिणामो मिथ्यात्वं तस्य प्रतिक्रमणं तत्प्रतिक्रान्तव्यं वर्तते, यदाभोगानाभोगसहसात्कारैमिथ्यात्वं गतस्तत्प्रतिक्रान्तव्यमित्यर्थः, तथैव असंयमे असंयमविषये प्रतिक्रमणम् असंयमः - प्राणातिपातादिलक्षणः प्रतिक्रान्तव्यो वर्त्तते, कषायाणां प्राग्निरूपितशब्दार्थानां क्रोधादीनां प्रतिक्रमणं, कषायाः प्रतिक्रान्तव्याः, योगानाञ्च मनोवाक्कायलक्षणानाम् अप्रशस्तानाम् अशोभनानां प्रतिक्रमणं, ते च प्रतिक्रान्तव्या इति गाथार्थः ॥१२५०॥ पडिसिद्धाणं करणे, किच्चाणमकरणे य पडिक्कमणं । असद्दहणे य तहा, विवरीयपरूवणाए य ॥१२७१॥

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430