Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 01
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 402
________________ अष्टविधा दर्शनाचाराः ३८५ पुण्यवती सुलसा यामर्हन् पृच्छति, ततोऽम्बडेन परीक्षणनिमित्तं सा भक्तं मागिता, तया न दत्तं, ततस्तेन बहूनि रूपाणि विकुर्वितानि, तथापि न दत्तं, न च सम्मूढा, तथा कुतीर्थिकभॊदृष्ट्वाऽमूढदृष्टिना भवितव्यम् ।) एतावान् गुणिप्रधानो दर्शनाचारनिर्देशः, अधुना गुणप्रधानः उपबृंहणस्थिरीकरणे इति, उपबृहणं च स्थिरीकरणं च उपबृंहणस्थिरीकरणे, तत्रोपबृंहणं नाम समानधार्मिकाणां सद्गुणप्रशंसनेन तद्वृद्धिकरणम्, स्थिरीकरणं तु धर्माद्विषीदतां सतां तत्रैव स्थापनम् । उववूहणाए उदाहरणं जहा रायगिहे नयरे सेणिओ राया, इओ य सक्को देवराया सम्मत्तं पसंसइ । इओ य एगो देवो असद्दहंतो नगरबाहिं सेणियस्स णिग्गयस्स चेल्लयरूवं काऊणं अणिमिसे गेण्हइ, ताहे तं निवारेइ, पुणरवि अण्णत्थ संजई गुव्विणी पुरओ ठिया, ताहे अपवरगे ठविऊण जहा ण कोइ जाणइ तहा सूइगिहं कारवेइ, जं किंचि सुइकम्मं तं सयमेव करेइ, तओ सो देवो संजईरूवं परिच्चइऊण दिव्वं देवरूवं दरिसेइ, भणइ य-भो सेणिय ! सुलद्धं ते जम्मजीवियस्स फलं जेण ते पवयणस्सुवरि एरिसी भत्ती भवइत्ति उववूहेऊण गओ। एवं उववूहियव्वा साहम्मि ॥ स्थिरीकरणे उदाहरणं जहा उज्जेणीए अज्जासाढो कालं करेंते संजए अप्पाहेइ - मम दरिसावं दिज्जह, जहा उत्तरज्झयणेसु एतं अक्खाणयं सव्वं तहेव, तम्हा जहा सो अज्जासाढो थिरो कओ एवं जे भविया ते थिरीकरेयव्वा । (छाया - उपबृंहणायामुदाहरणं यथा राजगृहे नगरे श्रेणिको राजा, इतश्च शक्रो देवराजः सम्यक्त्वं प्रशंसति, इतश्चैको देवोऽश्रद्दधानो नगराबहिः श्रेणिके निर्गते क्षुल्लकरूपं कृत्वाऽनिमेषान् गृह्णाति, तदा तं निवारयति, पुनरप्यन्यत्र संयती गभिणी पुरतः स्थिता, तदाऽपवरके स्थापयित्वा यथा न कोऽपि जानाति तथा सूतिकागृहं कारयति यत्किञ्चिदपि सूतिकाकर्म तत् स्वयमेव करोति, ततः स देवः संयतीरूपं परित्यज्य दिव्यं देवरूपं दर्शयति, भणति च - भोः श्रेणिक ! सुलब्धं त्वया जन्मजीवितयोः फलं येन ते प्रवचनस्योपरि ईदृशी भक्तिरस्तीति उपबृंह्य गतः, एवमुपबृंह्याः सार्मिकाः ॥ स्थिरीकरणे उदाहरणं यथोज्जयिन्यामार्याषाढः कालं कुर्वतः संयतान् संदिशति - मम दर्शनं दद्यात, यथोत्तराध्ययनेषु एतदाख्यानकं सर्वं तथैव, तस्मात् स यथा आर्याषाढः स्थिरीकृत एवं ये भव्यास्ते स्थिरीकर्तव्याः ।) तथा वात्सल्यप्रभावने इति वात्सल्यं च प्रभावना च वात्सल्यप्रभावने, तत्र वात्सल्यंसमानधार्मिकप्रीत्युपकारकरणं प्रभावना-धर्मकथादिभिस्तीर्थख्यापनेति, तत्र वात्सल्ये उदाहरणं अज्जवइरा, जहा तेहिं दुब्भिक्खे संघो नित्थारिओ एयं सव्वं जहा आवस्सए तहा

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430