Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 01
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 406
________________ चतुर्विधा बुद्धिः ३८९ स्निग्धां मधुरं हृदयङ्गमां च, आहरणहेतुयुक्तां च । कथयति कथां निर्यापकः, समाधिकरणाय क्षपकस्य ॥४६८१॥ कोऽपि विवेकविकलो, यदि नाऽऽलोचयति सम्यगुपयुक्तः । तं यः अपायदर्शन-पुरस्सरं कथयति एवम् ॥४६८७॥ इहलोके अविकटयन्, शठ इति सम्भावना अकीर्तिश्च । परलोके पुनः मायित्वेन अन्तः असारस्य ॥४६८८॥ इहभवकृतभावविहीनकष्टक्रिया अपि कुगतिहेतुरिति । स एव उच्यते सूरिः, अपायदर्शीति नाम्ना ॥४६८९॥ आयसपात्रनिक्षिप्तं जलमिव, आलोचिता अतिचाराः । न परिस्रवन्ति यतो, अपरिस्राविणं तं ब्रुवन्ति ॥४७०६॥) गुरुरष्टविधाचारवदादिगुणैः समन्वितो भवति । बुध्यतेऽनयेति बुद्धिः । सा चतुर्विधा । तद्यथा - १ औत्पत्तिकी, २ वैनयिकी, ३ कर्मजा ४ पारिणामिकी च । यदाह श्रीनन्दिसूत्रे हरिभद्रसूरिसन्हब्धतद्वृत्तौ च - 'उप्पत्तिआ १ वेणइआ २, कम्मया ३ परिणामिआ ४ । बुद्धी चउव्विहा वुत्ता, पंचमा णोवलब्भइ ॥५९॥ (छाया- औत्पत्तिकी १ वैनयिकी २ कर्मजा ३ पारिणामिकी ४ । बुद्धिः चतुविधा उक्ता, पञ्चमा नोपलभ्यते ॥५९॥) वृत्तिः - 'उप्पत्तिया' गाहा, व्याख्या - उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी, आह - क्षयोपशमः प्रयोजनमस्याः, सत्यं, किन्तु स खल्वन्तरङ्गत्वात्सर्वबुद्धिसाधारण इति न विवक्ष्यते, न चान्यच्छास्त्रस्वकर्माभ्यासादिकमपेक्षत इति । विनयो-गुरुशुश्रूषा स कारणमस्यास्तत्प्रधाना वा वैनयिकी । अनाचार्यकं कर्म, साचार्यकं शिल्पं, नित्यव्यापारः कर्म, कादाचित्कं शिल्पं कर्मति कर्मणो जाता कर्मजा, परि-समन्तात् नमनं परिणामः सुदीर्घकालपूर्वापरावलोकनादिजन्य आत्मधर्म इत्यर्थः स कारणमस्यास्तत्प्रधाना वा पारिणामिकी । बुध्यतेऽनयेति बुद्धिः मतिरित्यर्थः, सा चतुर्विधोक्ता तीर्थकरगणधरैः, किमिति ? यस्मात् पञ्चमी नोपलभ्यते केवलिनाऽप्यसत्त्वादिति गाथार्थः । ओत्पत्तिक्या लक्षणं प्रतिपादयन्नाह -

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430