________________
चतुर्विधा बुद्धिः
३८९ स्निग्धां मधुरं हृदयङ्गमां च, आहरणहेतुयुक्तां च । कथयति कथां निर्यापकः, समाधिकरणाय क्षपकस्य ॥४६८१॥ कोऽपि विवेकविकलो, यदि नाऽऽलोचयति सम्यगुपयुक्तः । तं यः अपायदर्शन-पुरस्सरं कथयति एवम् ॥४६८७॥ इहलोके अविकटयन्, शठ इति सम्भावना अकीर्तिश्च । परलोके पुनः मायित्वेन अन्तः असारस्य ॥४६८८॥ इहभवकृतभावविहीनकष्टक्रिया अपि कुगतिहेतुरिति । स एव उच्यते सूरिः, अपायदर्शीति नाम्ना ॥४६८९॥ आयसपात्रनिक्षिप्तं जलमिव, आलोचिता अतिचाराः ।
न परिस्रवन्ति यतो, अपरिस्राविणं तं ब्रुवन्ति ॥४७०६॥) गुरुरष्टविधाचारवदादिगुणैः समन्वितो भवति ।
बुध्यतेऽनयेति बुद्धिः । सा चतुर्विधा । तद्यथा - १ औत्पत्तिकी, २ वैनयिकी, ३ कर्मजा ४ पारिणामिकी च । यदाह श्रीनन्दिसूत्रे हरिभद्रसूरिसन्हब्धतद्वृत्तौ च -
'उप्पत्तिआ १ वेणइआ २, कम्मया ३ परिणामिआ ४ ।
बुद्धी चउव्विहा वुत्ता, पंचमा णोवलब्भइ ॥५९॥ (छाया- औत्पत्तिकी १ वैनयिकी २ कर्मजा ३ पारिणामिकी ४ ।
बुद्धिः चतुविधा उक्ता, पञ्चमा नोपलभ्यते ॥५९॥) वृत्तिः - 'उप्पत्तिया' गाहा, व्याख्या - उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी, आह - क्षयोपशमः प्रयोजनमस्याः, सत्यं, किन्तु स खल्वन्तरङ्गत्वात्सर्वबुद्धिसाधारण इति न विवक्ष्यते, न चान्यच्छास्त्रस्वकर्माभ्यासादिकमपेक्षत इति । विनयो-गुरुशुश्रूषा स कारणमस्यास्तत्प्रधाना वा वैनयिकी । अनाचार्यकं कर्म, साचार्यकं शिल्पं, नित्यव्यापारः कर्म, कादाचित्कं शिल्पं कर्मति कर्मणो जाता कर्मजा, परि-समन्तात् नमनं परिणामः सुदीर्घकालपूर्वापरावलोकनादिजन्य आत्मधर्म इत्यर्थः स कारणमस्यास्तत्प्रधाना वा पारिणामिकी । बुध्यतेऽनयेति बुद्धिः मतिरित्यर्थः, सा चतुर्विधोक्ता तीर्थकरगणधरैः, किमिति ? यस्मात् पञ्चमी नोपलभ्यते केवलिनाऽप्यसत्त्वादिति गाथार्थः ।
ओत्पत्तिक्या लक्षणं प्रतिपादयन्नाह -