SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ३९० चतुर्विधा बुद्धिः पुव्वं अदिट्ठमस्सुअ-मवेइयतक्खणविसुद्धगहिअत्था । अव्वाहयफलजोगा, बुद्धी उप्पत्तिआ नाम ॥६०॥ (छाया- पूर्वं अदृष्टाश्रुतावेदिततत्क्षणविशुद्धगृहीतार्था । अव्याहतफलयोगा, बुद्धिः औत्पत्तिकी नाम ॥६०॥). . वृत्तिः - पूर्वमिति बुद्ध्युत्पादात् प्राक् स्वयमदृष्टः अन्यतश्चाश्रुतः अवेदितो - मनसाऽप्यनालोचितः तस्मिन्नेव क्षणे विशुद्धो यथावस्थितः गृहीतो-ऽवधारितः अर्थः - अभिप्रेतपदार्थो यया सा तथा, इहैकान्तिकमिहपरलोकाविरुद्धं फलान्तराबाधितं चाव्याहतमुच्यते, फलं-प्रयोजनम् अव्याहतं च तत्फलं चाव्याहतफलं, योगोऽस्या अस्तीति योगिनी, अव्याहतफलेन योगिनी अव्याहतफलयोगिनी, अन्ये पठन्ति-अव्याहतफलयोगा अव्याहतफलेन योगोऽस्याः साऽव्याहतफलयोगा बुद्धिः औत्पत्तिकी नामेति गाथार्थः ॥६०॥ भरनित्थरणसमत्था, तिवग्गसुत्तत्थगहिअपेआला । उभओ लोगफलवई, विणयसमुत्था हवइ बुद्धी ॥६४॥ (छाया- भरनिस्तरणसमर्था, त्रिवर्गसूत्रार्थगृहीतप्रमाणा। उभयलोकफलवती, विनयसमुत्था भवति बुद्धिः ॥६४॥) वृत्तिः - 'भरनित्थ' गाहा - इहातिगुरुकार्यदुर्निर्वहत्वाद्भर इव भरस्तन्निस्तरणे समर्था भरनिस्तरणसमर्था, त्रयो वर्गास्त्रिवर्गमिति लोकरूढेर्धर्मार्थकामाः तदर्जनपरोपायप्रतिपादननिबन्धनं सूत्रं, तदन्वाख्यानं त्वर्थः, पेयालं-प्रमाणं सारो वा, त्रिवर्गसूत्रार्थयोर्गृहीतं प्रमाणं सारो वा यया सा तथाविधा । अथवा त्रिवर्गस्त्रैलोक्यम् । आह - त्रिवर्गसूत्रार्थगृहीतसारत्वे सत्यश्रुतनिश्रितत्वं विरुद्ध्यत इति, न हि श्रुताभ्यासमन्तरेण त्रिवर्गसूत्रार्थगृहीतसारत्वं सम्भवति, अत्रोच्यते - इह प्रायोवृत्तिमङ्गीकृत्याश्रुतनिश्रितत्वमुक्तम्, अतः स्वल्पश्रुतनिश्रितभावेऽपि न कश्चिद्दोष इति उभयलोकफलवती ऐहिकामुष्मिकफलवती विनयसमुत्था विनयोद्भवा भवति बुद्धिरिति गाथार्थः ॥६४॥ उवओगट्ठिसारा, कम्मपसंगपरिघोलणविसाला । साहुक्कारफलवई, कम्मसमुत्था हवइ बुद्धी ॥६७॥ (छाया- उपयोगदृष्टसारा, कर्मप्रसङ्गपरिघोलनविशाला । साधुकारफलवती, कर्मसमुत्था भवति बुद्धिः ॥६७॥)
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy