________________
चतुर्विधा बुद्धिः
वृत्तिः - 'उवयोग० ' गाहा - उपयोजनमुपयोगः विवक्षिते कर्मणि मनसोऽभिनिवेशः, सार:-तस्यैव कर्मणः परमार्थः, उपयोगेन दृष्टः सारो ययेति समासः, अभिनिवेशोपलब्धकर्मपरमार्थेत्यर्थः, कर्मणि प्रसङ्गः - कर्मप्रसङ्गः प्रसङ्गोऽभ्यासः, परिघोलनं विचारः, कर्मप्रसङ्गपरिघोलनाभ्यां विशाला कर्मप्रसङ्गपरिघोलनविशाला अभ्यासविचारविस्तीर्णेति भावार्थ: । साधुकृतमिति सुष्ठुकृतमिति विद्वद्भ्यः प्रशंसा - साधुकारः, तेन फलवतीति समासः, साधुकारेण वाऽशेषमपि फलं यस्याः सा तथा । कर्मसमुत्था कर्मोद्भवा भव बुद्धिरिति गाथार्थः ॥६७॥
अणुमाणहे उदिट्टंत-साहिआ वयविवागपरिणामा । हिअनिस्सेअसफलवइ-बुद्धी परिणामिआ नाम ॥६९॥
(छाया - अनुमानहेतुदृष्टान्त - साधिका वयोविपाकपरिणामा । हितनिःश्रेयसफलवती बुद्धिः पारिणामिकी नाम ॥६९॥ )
-
३९१
वृत्ति: - 'अणुमाण' गाहा - अनुमानहेतुदृष्टान्तैः साध्यमर्थं साधयतीति अनुमानहेतुदृष्टान्तसाधिका । इह लिङ्गज्ञानमनुमानं स्वार्थमित्यर्थः, तत्प्रतिपादकं वचो हेतुः परार्थमित्यर्थः, अथवा ज्ञापकमनुमानं, कारको हेतु:, दृष्टमर्थमन्तं नयतीति दृष्टान्तः । अनुमानग्रहणादेव दृष्टान्तस्य गतत्वादलमुपन्यासेन, न, अनुमानस्य तत्त्वत एकलक्षणत्वात् उक्तं च - 'अन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम्' इत्यादि, साध्योपमाभूतश्च दृष्टान्तः, उक्तं च 'यः साध्यस्योपमाभूतः, स दृष्टान्तः कथ्यते' इति । कालकृतो देहावस्थाविशेषो वय इत्युच्यते तद्विपाकेन परिणामः पुष्टता यस्याः सा तथाविधा, हितम् अभ्युदयः तत्कारणं वा, निःश्रेयसं-मोक्षः तन्निबन्धनं वा हितनिः श्रेयसाभ्यां फलवती बुद्धिः पारिणामिकी इति गाथार्थः ॥६९॥'
प्रथमकर्मग्रन्थवृत्तावुक्तं- 'तत्रोत्पत्तिकी बुद्धिर्यथा रोहकस्य, वैनयिकी बुद्धिः पददर्शनात्करिण्यादिज्ञायकच्छात्रस्येव, कर्मजा कर्षकस्येव, पारिणामिकी श्रीवज्रस्वामिन इव ।' (गाथा ४ वृत्तिः । )
एतानि कथानकानि नन्दिसूत्रस्य मलयगिरिसूरिविरचितवृत्तौ सङ्क्षेपेणोक्तानि । तथाहि
'कतिपयदिनानन्तरं रोहकबुद्धिपरीक्षानिमित्तं सामान्यतो ग्रामप्रधानपुरुषानुद्दिश्यैवमादिष्टवान् - यथा युष्मद्ग्रामस्य बहिरतीव महती शिला वर्त्तते तामनुत्पाट्य राजयोग्य