Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 01
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चतुर्विधा बुद्धिः
३९३ विमृश्यकारिणा द्वितीयः-परिभावय दासचेडीवचनमिति, तेनोक्तं-परिभावितं मया सर्वं, नान्यथा तव ज्ञानमिति, ततस्तौ हस्तपादान् प्रक्षाल्य तस्मिन् महासरस्तटे न्यग्रोधतरोरधो विश्रामाय स्थितौ, दृष्टौ च कयाचिच्छिरोन्यस्तजलभृतघटिकया वृद्धस्त्रिया, परिभाविता च तयोराकृतिः ततश्चिन्तयामास-नूनमेतौ विद्वांसौ, ततः पृच्छामि देशान्तरगतनिजपुत्रागमनमिति, पृष्टं तया, प्रश्नसमकालमेव च शिरसो निपत्य भूमौ घटः शतखण्डशो भग्नः, ततो झटित्येवाविमृश्यकारिणा प्रोचे - गतस्ते पुत्रो घट इव व्यापत्तिमिति, विमृश्यकारी ब्रूते स्ममा वयस्यैवं वादीः, पुत्रोऽस्या गृहे समागतो वर्त्तते, याहि मातर्वृद्ध ! स्त्रि! स्वपुत्रमुखमवलोकय, तत एवमुक्ता सा प्रत्युज्जीवितेवाशीर्वादशतानि विमृश्यकारिणः प्रयुञ्जाना स्वगृहं जगाम, दृष्टश्चोभूलितजङ्घः स्वपुत्रो गृहमागतः, ततः प्रणता स्वपुत्रेण, सा चाशीर्वाद निजपुत्राय प्रायुक्त, कथयामास च नैमित्तिकवृत्तान्तं, ततः पुत्रमापृच्छ्य वस्त्रयुगलं रूपकांश्च कतिपयानादाय विमृश्यकारिणः समर्पयामास, अविमृश्यकारी च खेदमावहन् स्वचेतसि अचिन्तयत्-नूनमहं गुरुणा न सम्यक् परिपाठितः, कथमन्यथाऽहं न जानामि ?, एष जानातीति, गुरुप्रयोजनं कृत्वा समागतौ द्वौ गुरोः पार्वे, तत्र विमृश्यकारी दर्शनमात्र एव शिरो नमयित्वा कृताञ्जलिपुटः सबहुमानमानन्दाश्रुप्लावितलोचनो गुरोः पादावन्तरा शिरः प्रक्षिप्य प्रणिपपात, द्वितीयोऽपि च शैलस्तम्भ इव मनागप्यनमितगात्रयष्टिर्मात्सर्यवह्निसम्पर्कतो धूमायमानोऽवतिष्ठते, ततो गुरुस्तं प्रत्याह - रे किमिति पादयोर्न पतसि ?, स प्राह - य एव सम्यक् पाठितः स एव पतिष्यति, नाहमिति, गुरुराह - कथं त्वं न सम्यक् पाठितः?, ततः स प्राचीनं वृत्तान्तं सकलमचीकथत्, यावदेतस्य ज्ञानं सर्वं सत्यं न ममेति, ततो गुरुणा विमृश्यकारी पृष्टः-कथय वत्स ! कथं त्वयेदं ज्ञातमिति ?, ततः स प्राह - मया युष्मत्पादादेशेन विमर्शः कर्तुमारब्धो - यथैतानि हस्तिरूपस्य पदानि सुप्रतीतान्येव, विशेषचिन्तायां तु किं हस्तिन उत हस्तिन्याः?, तत्र कायिकीं दृष्ट्वा हस्तिन्या इति निश्चितं, दक्षिणे च पार्वे वृत्तिसमारूढवल्लीवितान आलूनविशीर्णो हस्तिनीकृतो दृष्टो न वामपार्वे ततो निश्चिक्ये - नूनं वामेन चक्षुषा काणेति, तथा नान्य एवंविधपरिकरोपेतो हस्तिन्यामधिरूढो गन्तुमर्हति ततोऽवश्यं राजकीयं किमपि मानुषं यातीति निश्चितं, तच्च मानुषं क्वचित्प्रदेशे हस्तिन्या उत्तीर्य शरीरचिन्तां कृतवत्, कायिकी दृष्ट्वा राज्ञीति निश्चितं, वृक्षावलग्नरक्तवस्त्रदशालेशदर्शनात् सभर्तृका, भूमौ हस्तं निवेश्योत्थानाकारदर्शनाद्गुर्वी, दक्षिणचरणनिस्सहमोचननिवेशदर्शनात्प्रजने कल्येति । वृद्धस्त्रियाः प्रश्नानन्तरं घटनिपाते चैवं विमर्शः कृतो - यथैष घो यत उत्पन्नस्तत्रैव मिलितस्तथा पुत्रोऽपीति । तत एवमुक्ते गुरुणा स विमृश्यकारी चक्षुषा सानन्दमीक्षितः प्रशंसितश्च, द्वितीयं प्रत्युवाच - तव दोषो यन्न

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430