Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 01
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 409
________________ ३९२ चतुर्विधा बुद्धिः मण्डपाच्छादनं कुरुत, तत एवमादिष्टे सकलोऽपि ग्रामो राजादेशं कर्तुमशक्यं परिभावयन्नाकुलीभूतमानसो बहिसभायामेकत्र मिलितवान्, पृच्छति स्म परस्परं - किमिदानीं कर्त्तव्यं ?, दुष्टो राजादेशोऽस्माकमापतितो, राजादेशाकरणे च महाननर्थोपनिपातः, एवं च चिन्तया व्याकुलीभूतानां तेषां मध्यन्दिनमागतं, रोहकश्च पितरमन्तरेण न भुङ्क्ते, पिता च ग्राममेलापके मिलितो वर्त्तते, ततः स क्षुधा पीडितः पितुः समीपे समागत्य रोदितुं प्रावर्त्ततपीडितोऽहमतीव क्षुधा, ततः समागच्छ गृहे भोजनायेति, भरतः प्राह - वत्स ! सुखितोऽसि त्वं, न किमपि ग्रामकष्टं जानासि, स प्राह - पितः ! किं किं तदिति ?, ततो भरतो राजादेशं सविस्तरमचीकथत्, ततो निजबुद्धिप्रागल्भ्यवशात् झटिति कार्यस्य साध्यतां परिभाव्य तेनोक्तं - माऽऽकुलीभवत यूयं, खनत शिलाया राजोचितमण्डपनिष्पादनायाधस्तात् स्तम्भांश्च यथास्थानं निवेशयत भित्तीश्चोपलेपनादिना प्रकारेणातीव रमणीयाः प्रगुणीकुरुत, तत एवमुक्ते सर्वैरपि ग्रामप्रधानपुरुषैर्भव्यमिति प्रतिपन्नं, गतः सर्वोऽपि ग्रामलोकः स्वस्वगृहे भोजनाय, भुक्त्वा च समागतः शिलाप्रदेशे, प्रारब्धं तत्र कर्म, कतिपयदिनैश्च, निष्पादितः परिपूर्णो मण्डपः कृता च शिला तस्याच्छादनं, निवेदितं च राजे राजनियुक्तैः पुरुषैः - देव ! निष्पादितो ग्रामेण देवादेशः, राजा प्राह - कथमिति ?, ततस्ते सर्वमपि मण्डपनिष्पादनप्रकारं कथयामासुः, राजा प्रपच्छ - कस्येयं बुद्धिः ?, तेऽवादिषुः - देव ! भरतपुत्रस्य रोहकस्य । एषा रोहकस्यौत्पत्तिकी बुद्धिः ॥६३।। क्वचित्पुरे कोऽपि सिद्धपुत्रकः, तस्य द्वौ शिष्यौ निमित्तशास्त्रमधीतवन्तौ, एको बहुमानपुरस्सरं गुरोविनयपरायणो यत्किमपि गुरुरुपदिशति तत्सर्वं तथेति प्रतिपद्य स्वचेतसि निरन्तरं विमृशति, विमृशतश्च यत्र क्वापि सन्देह उपजायते तत्र भूयोऽपि विनयेन गुरुपादमूलमागत्य पृच्छति, एवं निरंतरं विमर्शपूर्वं शास्त्रार्थं तस्य चिन्तयतः प्रज्ञा प्रकर्षमुपजगाम, द्वितीयस्त्वेतद्गुणविकलः, तौ चान्यदा गुरुनिर्देशात् क्वचित्प्रत्यासन्ने ग्रामे प्रवृत्ती, पथि च कानिचित् महान्ति पदानि तावदर्शतां, तत्र विमृश्यकारिणा पृष्टं-भोः कस्यामूनि पदानि ?, तेनोक्तं - किमत्र प्रष्टव्यं हस्तिनोऽमूनि पदानि ?, ततो विमृश्यकारी प्राह-मैवं भाषिष्ठाः, हस्तिन्या अमूनि पदानि, सा च हस्तिनी वामेन चक्षुषा काणा, तां चाधिरूढा गच्छति काचिद्राज्ञी, सा च सभर्तृका गुर्वी च प्रजने कल्या, अद्य श्वो वा प्रसविष्यति, पुत्रश्च तस्या भविष्यति, तत एवमुक्ते सोऽविमृश्यकारी ब्रूते-कथमेतदवसीयते ?, विमृश्यकारी प्राह ज्ञानं प्रत्ययसारमित्यग्रे प्रत्ययतो व्यक्तं भविष्यति, ततः प्राप्तौ तौ विवक्षितं ग्राम, दृष्टा चावासिता तस्य ग्रामस्य बहिःप्रदेशे महासरस्तटे राज्ञी, परिभाविता च हस्तिनी वामेन चक्षुषा काणा । अत्रान्तरे च काचिद्दासचेडी महत्तमं प्रत्याह-वर्धाप्यसे राज्ञः पुत्रलाभेनेति, ततः शब्दितो

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430