Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 01
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 401
________________ ३८४ अष्टविधा दर्शनाचाराः वृत्तिः - दर्शनाचारश्चाष्टधा, तथा चाह गाथा - 'निस्संकी'त्यादि, निःशङ्कित इत्यत्र शङ्का शङ्कितं निर्गतं शङ्कितं यतोऽसौ निःशङ्कितः देशसर्वशङ्कारहित इत्यर्थः, तत्र देशशङ्का समाने जीवत्वे कथमेको भव्योऽपरस्त्वऽभव्य इति शङ्कते, सर्वशङ्का तु प्राकृतनिबद्धत्वात्सकलमेवेदं परिकल्पितं भविष्यतीति, न पुनरालोचयति यथा - भावा हेतुग्राह्या अहेतुग्राह्याश्च, तत्र हेतुग्राह्या जीवास्तित्वादयः, अहेतुग्राह्या भव्यत्वादयः, अस्मदाद्यपेक्षया प्रकृष्टज्ञानगोचरत्वात् तद्धेतूनामिति, प्राकृतनिबन्धोऽपि बालादिसाधारण इति, उक्तञ्च - "बालस्त्रीमूढमूर्खाणां, नृणां चारित्रकाङ्क्षिणाम् । अनुग्रहार्थं तत्त्वज्ञैः, सिद्धान्तः प्राकृतः स्मृतः ॥१॥" दृष्टेष्टाविरुद्धश्चेति, उदाहरणं चात्र पेयापेयकौ यथाऽऽवश्यके, ततश्च निःशङ्कितो जीव एवार्हच्छासनप्रतिपन्नो दर्शनाचरणात् तत्प्राधान्यविवक्षया दर्शनाचार उच्यते, अनेन दर्शनदर्शनिनोरभेदमाह, तदेकान्तभेदे त्वदर्शनिन इव तत्फलाभावात् मोक्षाभाव इति, एवं शेषपदेष्वपि भावना कार्येति १ । तथा निष्काङ्कितो-देशसर्वकाङ्क्षारहितः, तत्र देशकाङ्क्षा एकं दर्शनं काङ्क्षति दिगम्बरदर्शनादि, सर्वकाङ्क्षा तु सर्वाण्येवेति, नालोचयति षड्जीवनिकायपीडामसत्प्ररूपणां च, उदाहरणं चात्र राजामात्यौ यथाऽऽवश्यक इति २ । विचिकित्सा-मतिविभ्रमः निर्गता विचिकित्सा-मतिविभ्रमो यतोऽसौ निर्विचिकित्सः, साध्वेव जिनदर्शनं किन्तु प्रवृत्तस्यापि सतो ममास्मात्फलं भविष्यति न भविष्यतीति ?, क्रियायाः कृषीवलादिषूभयोपलब्धेरिति विकल्परहितः, न ह्यविकल्प उपाय उपेयवस्तुपरिप्रापको न भवतीति सञ्जातनिश्चयो निर्विचिकित्स उच्यते एतावताउंशेन निःशङ्किताद्भिन्नः, उदाहरणं चात्र विद्यासाधको यथाऽऽवश्यक इति, यद्वा निर्विज्जुगुप्सः-साधुजुगुप्सारहितः, उदाहरणं चात्र श्रावकदुहिता यथाऽऽवश्यक एव ३ । तथाऽमूढदृष्टिश्च बालतपस्वितपोविद्याऽतिशयदर्शनैर्न मूढा-स्वरूपान्न चलिता दृष्टिः - सम्यग्दर्शनरूपा यस्यासावमूढदृष्टिः, अत्रोदाहरणं सुलसा साविया, जहा लोइयरिसी अंबडो रायगिहं गच्छंतो बहुयाणं भवियाणं थिरीकरणणिमित्तं सामिणा भणिओ - सुलसं पुच्छिज्जासि, अंबडो चिंतेइ पुन्नमतिया सुलसा जं अरहा पुच्छेइ, तओ अम्बडेण परिक्खणाणिमित्तं सा भत्तं मग्गिया, ताए ण दिन्नं, तओ तेण बहूणि रूवाणि विउव्वियाणि, तहवि ण दिन्नं, ण य संमूढा, तह कुतित्थियरिद्धीओ दद्दूण अमूढदिट्ठिणा भवियव्वं ४ । (छाया - अत्रोदाहरणं सुलसा श्राविका, यथा लौकिकऋषिरम्बडो राजगृहं गच्छन् बहूनां भव्यानां स्थिरीकरणनिमित्तं स्वामिना भणितः - सुलसां पृच्छे:, अम्बडश्चिन्तयति -

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430