Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 01
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
३८२
अष्टविधा ज्ञानाचाराः
किंचि ण ठाइ, आयरिया भणंति, छद्वेणं ते अणुन्नवइत्ति, तओ सो भणइ एयस्स के रिसो जोओ ? आयरिया भणंति - जाव ण ठाइ ताव आयंबिलं कायव्वं, तओ सो भणइ - तो एवं चेव पढामि, तेण तहा पढंतेण बारस रूवाणि बारससंवच्छरेहिं अहियाणि, ताव से आयंबिलं कयं, तओ णाणावरणिज्जं कम्मं खीणं, एवं जहाऽसगडपियाए आगाढजोगो अणुपालिओ तहा सम्मं अणुपालियव्वं, उवहाणेत्ति गयं ।
-
(छाया - एके आचार्याः ते वाचनायां श्रान्तपरिश्रान्ताः स्वाध्यायकेऽप्यस्वाध्यायिकं घोषयितुमारब्धाः, ज्ञानान्तरायं बद्ध्वा कालं कृत्वा देवलोकं गताः, ततो देवलोकादायुःक्षयेण च्युता आभीरकुले प्रत्यायाता भोगान् भुञ्जन्ति, अन्यदा च तस्य दुहिता जाता, सा चातीव रूपिणी, तौ च प्रत्यन्तग्रामान् गोचारणनिमित्तमन्यत्र व्रजतः, तस्या दारिकायाः पितुः शकटं सर्वशकटानां पुरतो गच्छति सा च दारिका तस्य शकटस्य धुरि स्थिता गच्छति, तरुणैश्चिन्तितं, समानि शकटानि कृत्वा दारिकां प्रेक्षामहे, तैः शकटान्युत्पथे खेटितानि, विषमे आपतितानि सन्ति भग्नानि, ततो लोकेन तस्या दारिकाया नाम कृतमशकटेति, तस्या दारिकाया अशकटायाः पिता अशकटपितेति, ततस्तस्य तदेव वैराग्यं जातं, तां दारिकामेकस्मै दत्त्वा प्रव्रजितः यावच्चतुरङ्गीयं तावत् पठितः, असंस्कृते उद्दिष्टे तत् ज्ञानावरणीयं तस्य कर्मोदीर्णं, पठतोऽपि न किञ्चित्तिष्ठति, आचार्या भणन्ति - तव षष्ठेनानुज्ञायते इति, ततः स भणति एतस्य कीदृशो योग: ?, आचार्या भणन्ति - यावन्नायाति तावदाचामाम्लं कर्त्तव्यं, ततः स भणति तदैवमेव पठामि तेन तथा पठता द्वादश काव्यानि द्वादशभिः संवत्सरैरधीतानि, तावत्तेनाचामाम्लानि कृतानि ततो ज्ञानावरणं कर्म क्षीणं, एवं यथाऽशकटपित्राऽऽगाढयोगोऽनुपालितस्तथा सम्यगनुपालयितव्यः उपधानमिति गतम् ।)
तथा 'अनिण्हवणि 'त्ति गृहीतश्रुतेनानिह्नवः कार्यः, यद्यस्य सकाशेऽधीतं तत्र स एव कथनीयो नान्यः, चित्तकालुष्यापत्तेरिति, अत्र दृष्टान्तः - एगस्स ण्हावियस्स खुरभंडं विज्जासामत्थेण आगासे अच्छइ, तं च एगो परिव्वायगो बहूर्हि उवसंपज्जणाहि उवसंपज्जिऊण, ते सा विज्जा लद्धा, ताहे अन्नत्थ गंतुं तिदंडेण आगासगएण महाजणेण पूइज्जइत्ति, रन्ना य पुच्छिओ - भयवं ! किमेस विज्जाइसयो उय तवाइसओ त्ति ? सो भणइ - विज्जाइसओ, कस्स सगासाओ गहिओ ?, सो भणइ हिमवंते फलाहारस्स रिसिणो सगासे अहिज्जिओ, एवं तु वुत्ते समाणे संकिलेसदुट्टयाए तं तिदंडं खडत्ति पडियं, एवं जो अप्पागमं आयरियं निण्हवेऊण अन्नं कहेइ तस्स चित्तसंकिलेसदोसेणं सा विज्जा परलोए ण हवइत्ति, अनिण्हवणित्ति गयं ।

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430