Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 01
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 400
________________ अष्टविधा दर्शनाचाराः ३८३ (छाया - एकस्य नापितस्य क्षुरप्रादिभाजनं विद्यासामर्थ्येनाकाशे तिष्ठति, तं चैकः परिव्राट् बहुभिरुपसम्पद्भिरुपसम्पद्य (स्थितः), ततस्तां विद्यां लब्धवान्, ततोऽन्यत्र गत्वा त्रिदण्डेनाकाशगतेन महाजनेन पूज्यते, राज्ञा च पृष्टः - भगवन् ! किमेष विद्यातिशय उत तपोऽतिशय इति ?, स भणति - विद्यातिशयः, कस्य सकाशाद् गृहीतः ?, स भणति - हिमवति फलाहारस्यर्षेः सकाशे अधीतः, एवं तूक्तमात्रे सङ्क्लेशदुष्टतया तत्रिदण्डं खटदिति पतितं, एवं योऽल्पागममाचार्यं निस्यान्यं कथयति तस्य चित्तसङ्क्लिष्टतादोषेण सा विद्या परलोके न भवति । अनिह्नव इति गतम् । ___ तथा व्यञ्जनार्थतदुभयान्याश्रित्य भेदो न कार्य इति वाक्यशेषः, एतदुक्तं भवति - श्रुतप्रवृत्तेन तत्फलमभीप्सता व्यञ्जनभेदोऽर्थभेद उभयभेदश्च न कार्य इति, तत्र व्यञ्जनभेदो यथा - धम्मो मंगलमुक्किट्ठमिति वक्तव्ये पुण्णं कल्लाणमुक्कोसमिति, अर्थभेदस्तु यथा आवन्ती केयावन्ती लोगंसि विप्परामुसन्तीत्यत्राचारसूत्रे यावन्तः केचन लोके-अस्मिन् पाखण्डिलोके विपरामृशन्तीत्येवंविधार्थाभिधाने अवन्तिजनपदे केया-रज्जुर्वान्ता-पतिता लोकः परामृशति कूप इत्याह, उभयभेदस्तु द्वयोरपि याथात्म्योपमर्देन यथा - धर्मो मङ्गलमुत्कृष्टः अहिंसा पर्वतमस्तक इत्यादि, दोषश्चात्र व्यञ्जनभेदेऽर्थभेदस्तद्भेदे क्रियाया भेदस्तद्भेदे मोक्षाभावस्तदभावे च निरर्थिका दीक्षेति, उदाहरणं चात्रान्धीयतां कुमार इति सर्वत्र योजनीयं, क्षुण्णत्वादनुयोगद्वारेषु चोक्तत्वान्नेह दर्शितमिति । अष्टविधः - अष्टप्रकार: कालादिभेदद्वारेण ज्ञानाचारो-ज्ञानासेवनाप्रकार इति गाथार्थः ॥१८४॥' गुरुरष्टविधज्ञानाचार्युक्तो भवति । दर्शनं सम्यक्त्वं, तस्याऽऽचारा इति दर्शनाचाराः । तेऽष्टविधाः । तद्यथा - १ निःशङ्कितः, २ निष्काङ्क्षितः, ३ निर्विचिकित्सः, ४ अमूढदृष्टिः, ५ उपबृंहणा, ६ स्थिरीकरणं, ७ वात्सल्यं ८ प्रभावना च । उक्तञ्च दशवैकालिकसूत्रनिर्युक्तौ तवृत्तौ च - "निस्संकिय निक्कंखिय निव्वितिगिच्छा अमूढदिट्ठी अ। उववूह थिरीकरणे वच्छलपभावणे अट्ठ ॥१८२॥ (छाया- निःशङ्कितः निष्काङ्क्षितः निर्विचिकित्सा अमूढदृष्टिश्च । उपबृहणं स्थिरीकरणं वात्सल्यं प्रभावना अष्टौ ॥१८२॥)

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430