SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ अष्टविधा दर्शनाचाराः ३८३ (छाया - एकस्य नापितस्य क्षुरप्रादिभाजनं विद्यासामर्थ्येनाकाशे तिष्ठति, तं चैकः परिव्राट् बहुभिरुपसम्पद्भिरुपसम्पद्य (स्थितः), ततस्तां विद्यां लब्धवान्, ततोऽन्यत्र गत्वा त्रिदण्डेनाकाशगतेन महाजनेन पूज्यते, राज्ञा च पृष्टः - भगवन् ! किमेष विद्यातिशय उत तपोऽतिशय इति ?, स भणति - विद्यातिशयः, कस्य सकाशाद् गृहीतः ?, स भणति - हिमवति फलाहारस्यर्षेः सकाशे अधीतः, एवं तूक्तमात्रे सङ्क्लेशदुष्टतया तत्रिदण्डं खटदिति पतितं, एवं योऽल्पागममाचार्यं निस्यान्यं कथयति तस्य चित्तसङ्क्लिष्टतादोषेण सा विद्या परलोके न भवति । अनिह्नव इति गतम् । ___ तथा व्यञ्जनार्थतदुभयान्याश्रित्य भेदो न कार्य इति वाक्यशेषः, एतदुक्तं भवति - श्रुतप्रवृत्तेन तत्फलमभीप्सता व्यञ्जनभेदोऽर्थभेद उभयभेदश्च न कार्य इति, तत्र व्यञ्जनभेदो यथा - धम्मो मंगलमुक्किट्ठमिति वक्तव्ये पुण्णं कल्लाणमुक्कोसमिति, अर्थभेदस्तु यथा आवन्ती केयावन्ती लोगंसि विप्परामुसन्तीत्यत्राचारसूत्रे यावन्तः केचन लोके-अस्मिन् पाखण्डिलोके विपरामृशन्तीत्येवंविधार्थाभिधाने अवन्तिजनपदे केया-रज्जुर्वान्ता-पतिता लोकः परामृशति कूप इत्याह, उभयभेदस्तु द्वयोरपि याथात्म्योपमर्देन यथा - धर्मो मङ्गलमुत्कृष्टः अहिंसा पर्वतमस्तक इत्यादि, दोषश्चात्र व्यञ्जनभेदेऽर्थभेदस्तद्भेदे क्रियाया भेदस्तद्भेदे मोक्षाभावस्तदभावे च निरर्थिका दीक्षेति, उदाहरणं चात्रान्धीयतां कुमार इति सर्वत्र योजनीयं, क्षुण्णत्वादनुयोगद्वारेषु चोक्तत्वान्नेह दर्शितमिति । अष्टविधः - अष्टप्रकार: कालादिभेदद्वारेण ज्ञानाचारो-ज्ञानासेवनाप्रकार इति गाथार्थः ॥१८४॥' गुरुरष्टविधज्ञानाचार्युक्तो भवति । दर्शनं सम्यक्त्वं, तस्याऽऽचारा इति दर्शनाचाराः । तेऽष्टविधाः । तद्यथा - १ निःशङ्कितः, २ निष्काङ्क्षितः, ३ निर्विचिकित्सः, ४ अमूढदृष्टिः, ५ उपबृंहणा, ६ स्थिरीकरणं, ७ वात्सल्यं ८ प्रभावना च । उक्तञ्च दशवैकालिकसूत्रनिर्युक्तौ तवृत्तौ च - "निस्संकिय निक्कंखिय निव्वितिगिच्छा अमूढदिट्ठी अ। उववूह थिरीकरणे वच्छलपभावणे अट्ठ ॥१८२॥ (छाया- निःशङ्कितः निष्काङ्क्षितः निर्विचिकित्सा अमूढदृष्टिश्च । उपबृहणं स्थिरीकरणं वात्सल्यं प्रभावना अष्टौ ॥१८२॥)
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy