________________
अष्टविधा दर्शनाचाराः
३८५ पुण्यवती सुलसा यामर्हन् पृच्छति, ततोऽम्बडेन परीक्षणनिमित्तं सा भक्तं मागिता, तया न दत्तं, ततस्तेन बहूनि रूपाणि विकुर्वितानि, तथापि न दत्तं, न च सम्मूढा, तथा कुतीर्थिकभॊदृष्ट्वाऽमूढदृष्टिना भवितव्यम् ।)
एतावान् गुणिप्रधानो दर्शनाचारनिर्देशः, अधुना गुणप्रधानः उपबृंहणस्थिरीकरणे इति, उपबृहणं च स्थिरीकरणं च उपबृंहणस्थिरीकरणे, तत्रोपबृंहणं नाम समानधार्मिकाणां सद्गुणप्रशंसनेन तद्वृद्धिकरणम्, स्थिरीकरणं तु धर्माद्विषीदतां सतां तत्रैव स्थापनम् । उववूहणाए उदाहरणं जहा रायगिहे नयरे सेणिओ राया, इओ य सक्को देवराया सम्मत्तं पसंसइ । इओ य एगो देवो असद्दहंतो नगरबाहिं सेणियस्स णिग्गयस्स चेल्लयरूवं काऊणं अणिमिसे गेण्हइ, ताहे तं निवारेइ, पुणरवि अण्णत्थ संजई गुव्विणी पुरओ ठिया, ताहे अपवरगे ठविऊण जहा ण कोइ जाणइ तहा सूइगिहं कारवेइ, जं किंचि सुइकम्मं तं सयमेव करेइ, तओ सो देवो संजईरूवं परिच्चइऊण दिव्वं देवरूवं दरिसेइ, भणइ य-भो सेणिय ! सुलद्धं ते जम्मजीवियस्स फलं जेण ते पवयणस्सुवरि एरिसी भत्ती भवइत्ति उववूहेऊण गओ। एवं उववूहियव्वा साहम्मि ॥ स्थिरीकरणे उदाहरणं जहा उज्जेणीए अज्जासाढो कालं करेंते संजए अप्पाहेइ - मम दरिसावं दिज्जह, जहा उत्तरज्झयणेसु एतं अक्खाणयं सव्वं तहेव, तम्हा जहा सो अज्जासाढो थिरो कओ एवं जे भविया ते थिरीकरेयव्वा ।
(छाया - उपबृंहणायामुदाहरणं यथा राजगृहे नगरे श्रेणिको राजा, इतश्च शक्रो देवराजः सम्यक्त्वं प्रशंसति, इतश्चैको देवोऽश्रद्दधानो नगराबहिः श्रेणिके निर्गते क्षुल्लकरूपं कृत्वाऽनिमेषान् गृह्णाति, तदा तं निवारयति, पुनरप्यन्यत्र संयती गभिणी पुरतः स्थिता, तदाऽपवरके स्थापयित्वा यथा न कोऽपि जानाति तथा सूतिकागृहं कारयति यत्किञ्चिदपि सूतिकाकर्म तत् स्वयमेव करोति, ततः स देवः संयतीरूपं परित्यज्य दिव्यं देवरूपं दर्शयति, भणति च - भोः श्रेणिक ! सुलब्धं त्वया जन्मजीवितयोः फलं येन ते प्रवचनस्योपरि ईदृशी भक्तिरस्तीति उपबृंह्य गतः, एवमुपबृंह्याः सार्मिकाः ॥ स्थिरीकरणे उदाहरणं यथोज्जयिन्यामार्याषाढः कालं कुर्वतः संयतान् संदिशति - मम दर्शनं दद्यात, यथोत्तराध्ययनेषु एतदाख्यानकं सर्वं तथैव, तस्मात् स यथा आर्याषाढः स्थिरीकृत एवं ये भव्यास्ते स्थिरीकर्तव्याः ।)
तथा वात्सल्यप्रभावने इति वात्सल्यं च प्रभावना च वात्सल्यप्रभावने, तत्र वात्सल्यंसमानधार्मिकप्रीत्युपकारकरणं प्रभावना-धर्मकथादिभिस्तीर्थख्यापनेति, तत्र वात्सल्ये उदाहरणं अज्जवइरा, जहा तेहिं दुब्भिक्खे संघो नित्थारिओ एयं सव्वं जहा आवस्सए तहा