________________
३८६
अष्टविधाश्चारित्राचाराः
नेयं, पभावणाए उदाहरणं ते चेव अज्जवइरा जहा तेहिं अग्गिसिहाओ सुहुमकाइआई आणेऊण सासणस्स उब्भावणा कया एयमक्खाणयं जहा आवस्सए तहा कहेयव्वं, एवं साहुणावि सव्वपयत्तेण सासणं उब्भावेयव्वं ।
(छाया तत्र वात्सल्ये उदाहरणं आर्यवज्रा । यथा तैर्दुर्भिक्षे सङ्घो निस्तारित एतत् सर्वं यथाssवश्यके तथा ज्ञेयं, प्रभावनायां त एवोदाहरणमार्यवज्रा यथा तैरग्निशिखात् (पुष्पाणि) सूक्ष्मकायिकाण्यानीय शासनस्योद्भावना कृता एतदाख्यानकं यथाऽऽवश्यके तथा कथयितव्यं, एवं साधुनाऽपि सर्वप्रयत्नेन शासनमुद्भावयितव्यम् ।)
-
अष्टावित्यष्टप्रकारो दर्शनाचारः, प्रकाराश्चोक्ता एव निःशङ्कितादयः, गुणप्रधानश्चायं निर्देशो गुणगुणिनोः कथञ्चिद्भेदख्यापनार्थः, एकान्ताभेदे तन्निवृत्तौ गुणिनोऽपि निवृत्तेः शून्यतापत्तिरिति गाथार्थः ॥ १८२॥
गुरुरष्टविधदर्शनाचारैर्युक्तो भवति ।
तद्यथा
चारित्रं - सर्वसावद्ययोगत्यागरूपं, तस्याऽऽचारा इति चारित्राचाराः । तेऽष्टविधाः । पञ्चसमितित्रिगुप्तिषु प्रणिधानयोगयुक्तत्वम् । यदाहुः दशवैकालिकसूत्रनिर्युक्त तद्वृत्तौ च
-
-
'पणिहाणजोगजुत्तो पंचर्हि समिईहिं तिहि य गुत्तीहिं । एस चरित्तायारो अट्ठविहो होइ नायव्वो ॥ १८५ ॥
(छाया- प्रणिधानयोगयुक्तः पञ्चभिः समितिभिः त्रिभिश्च गुप्तिभिः । एष चारित्राचारो अष्टविधो भवति ज्ञातव्यः ॥१८५॥
-
वृत्तिः - साम्प्रतं चारित्राचारमाह - प्रणिधानं - चेतः स्वास्थ्यं तत्प्रधाना योगा व्यापारास्तैर्युक्तः - समन्वितः प्रणिधानयोगयुक्तः, अयं चौघतोऽविरतसम्यग्दृष्टिरपि भवत्यत आह पञ्चभिः समितिभिस्तिसृभिश्च गुप्तिभिर्यः प्रणिधानयोगयुक्तः, एतद्योगयुक्त एतद्योगवानेव, अथवा पञ्चसु समितिषु तिसृषु गुप्तिष्वस्मिन् विषये - एता आश्रित्य प्रणिधानयोगयुक्तो य एष चारित्राचारः, आचाराचारवतोः कथञ्चिदव्यतिरेकादष्टविधो भवति ज्ञातव्यः, समितिगुप्तियोगभेदात्, समितिगुप्तिरूपं च शुभं प्रवीचाराप्रवीचाररूपं यथा प्रतिक्रमणे इति गाथार्थः ॥ १८५ ॥
गुरुरष्टविधचारित्राचारैरुपेतो भवति ।
-