Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 01
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 384
________________ सप्तविधं भयम् ४ तथा अकस्मादेव - बाह्यनिमित्तानपेक्षं गृहादिष्वेव स्थितस्य रात्र्यादौ भयमकस्माद्भयं, तथा धनधान्यादिहीनोऽहं दुष्काले कथं जीविष्यामीति दुष्कालपतनाद्याकर्णनाद्भयमाजीविकाभयं ६ नैमित्तिकादिना मरिष्यसि त्वमधुनेत्यादिकथिते भयं मरणभयं, ७ अकार्यकरणोन्मुखस्य विवेचनायां जनापवादमुत्प्रेक्ष्य भयमश्लोकभयमिति, इमानि सप्त भयस्थानानि सिद्धान्ते भणितानि ॥ १३२०॥' गुरुः सप्तभयैर्विमुक्तो भवति । पिण्डस्य भोजनस्य एषणा ग्रहणरितिरिति पिण्डैषणा । सा सप्तविधा । तद्यथा १ असंसृष्टा, २ संसृष्टा, ३ उद्धृता, ४ अल्पलेपा, ५ अवगृहीता, ६ प्रगृहीता ७ उज्झितधर्मा च । पानस्य जलस्य एषणा ग्रहणरितिरिति पानैषणा । साऽपि पिण्डैषणावत्सप्तविधा । यदवाचि प्रवचनसारोद्धारे तद्वृत्तौ च - 'इदानीं 'पिंडे पाणे य एसणासत्तगं'ति षण्णवतं द्वारमाह - संसट्ट १ मसंसट्टा २ उद्धड ३ तह अप्पलेविया ४ चेव । उगहिया ५ पग्गहिया ६ उज्झियधम्मा ७ य सत्तमिया ॥ ७३९॥ मि य संसट्टा हत्थमत्तएहिं इमा पढम भिक्खा १ । तव्विवरीया बीया भिक्खा गिण्हंतयस्स भवे २ ॥ ७४० ॥ नियजोएणं भोयणजायं उद्धरियमुद्धडा भिक्खा ३ । सा अप्पलेविया जा निल्लेवा वल्लचणगाई ४ ॥७४१ ॥ भोयणकाले निहिया सरावपमुहेसु होइ उग्गहिया ५ । पग्गहिया जं दाउं भुत्तुं व करेण असणाई ६ ॥७४२॥ भोयणजायं जं. छड्डणारिहं नेहयंति दुपयाई । अद्धच्चत्तं वा सा उज्झियधम्मा भवे भिक्खा ७ ॥ ७४३ ॥ पाणेसणावि एवं नवरि चउत्थीऍ होइ नाणत्तं । सोवीरायामाइं जमलेवाडत्ति समयुत्ती ॥७४४॥ (छाया - संसृष्टा १ असंसृष्टा २ उद्धृता ३ तथा अल्पलेपिका ४ चैव । अगृहीता ५ प्रगृहीता ६ उज्झितधर्मा ७ च सप्तमिका ॥७३९ ॥ ३६७ ५

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430